पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६६
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे


त्रयोविंशः सर्गः

वरुणजयः

ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् । रावणस्तु रणश्लाघी स्वसहायान् ददर्श ह ॥१॥
ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम् । रावणं राक्षसा दृष्ट्वा विस्मयं समुपागमन् ॥२॥
जयेन वर्धयित्वा च मारीचप्रमुखास्ततः । पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु ॥३॥
ततो रसातलं गच्छन् प्रविष्टः पयसां निधिम् । दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् ॥४॥
स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् । कृत्वा नागान् वशे हृष्टो ययौ मणिमयी पुरीम् ॥५॥
निवातकवचास्तत्र दैत्या लब्धवरा वसन् । राक्षसस्तान् समागम्य युद्धाय समुपाह्वयत् ॥६॥
ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः । नानाप्रहरणास्तत्र प्रहृष्टा युद्धदुर्मदाः ॥७॥
शूलैस्त्रिशूलैः कुलिशैः पट्टसासिपरश्वधैः । अन्योन्यं बिभिदुः क्रुद्धा राक्षसा दानवास्तथा ॥८॥
तेषां तु युध्यमानानां साग्रः संवत्सरो गतः । न चान्यतरयोस्तत्र विजयो वा क्षयोऽपि वा ॥९॥
ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः । आजगाम द्रुतं देवो विमानवरमास्थितः ॥१०॥
निवातकवचानां तु निवार्य रणकर्म तत् । वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ॥११॥
न ह्यं रावणो युद्धे शक्यो जेतुं सुरासुरैः । न भवन्तः क्षयं नेतुमपि सामरदानवैः ॥१२॥
राक्षसस्य सखित्वं च भवद्भिः सह रोचते । अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः॥१३॥
ततोऽग्निसाक्षिकं सत्यं कृतवांस्तत्र रावणः। निवातकवचैः सार्धं प्रीतिमानभवत्तदा ॥१४॥
अचिंतस्तैर्यथान्यायं संवत्सरमथोषितः । स्वपुरान्निर्विशेषं च प्रियं प्राप्तो दशाननः ॥१५॥
तत्रोपधार्य मायानां शतमेकं समाप्तवान् । सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम् ॥१६॥
ततोऽश्मनगरं नाम कालकेयैरधिष्ठितम् । गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान् ॥१७॥
शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा । श्यालं न बलबन्तं च विद्युज्जिहं बलोत्कटम् ॥१८॥
जिह्वया संलिहन्तं च राक्षसं समरे तथा । तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् ॥१९॥
ततः पाण्डरमेघामं कैलासमिव भास्वरम् । वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ॥२०॥
क्षरन्तीं च पयस्तत्र सुरभि गामवस्थिताम् । यस्याः पयोऽभिनिष्यन्दात् क्षीरोदो नाम सागरः॥२१॥
ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम् । यस्माच्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः ॥२२॥
यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः । अमृतं यत्र चोत्पन्नं स्वधा च स्वधभोजिनाम् ॥२३॥
यां ब्रुवन्ति नरा लोके सुरभि नाम नामतः । प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम्॥२४॥
प्रविवेश महाघोरं गुप्तं बहुविधर्वलः । तोयधाराशताकीर्ण शारदाप्रनिभं तदा ॥२५॥
नित्यप्रहृष्टं दहशे वरुणस्य गृहोत्तमम् । ततो हत्वा बलाध्यक्षान् समरे तैश्च ताडितः ॥२६॥
अब्रवीच्च ततो योधान् राजा शीघ्रं निवेद्यताम्। युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् ॥२८॥
वद वा न भयं तेऽस्ति निर्जितोऽस्मीति साञ्जलिः ।एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः॥२९॥