पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६५
द्वाविंशः सर्गः

युगान्तपरिवर्ते च पृथिवी समहार्णवा।क्षयं नीता महाराज सपर्वतसरिद्द्रुमा ॥२९॥
एते चान्ये च बहवो बलवन्तो दुरासदाः।विनिपन्ना मया दृष्टाः किमुतायं निशाचरः॥३०॥
मुञ्च मां साधुधर्मज्ञ यावदेनं निहन्म्यहम्।न हि कश्चिन्मया दृष्टो बलवानपि जीवति॥३१॥
बलं मम न खल्वेतन्मर्यादैषा निसर्गतः । स दृष्टो न मया कालं मुहूर्तमपि जीवति॥३२॥
तस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान्। अब्रवीत्तत्र तं मृत्यु त्वं तिष्ठैनं निहन्म्यहम्॥३३॥
ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः । कालदण्डममोघं तु तोलयामास पाणिना॥३४॥
यस्य पार्श्वेषु निखिलाः कालपाशाः प्रतिष्ठिताः । पावकाशनिसंकाशो मुद्रो मूर्तिमान् स्थितः॥३५॥
दर्शनादेव यः प्राणान् प्राणिनामपकर्षति । किं पुनः स्पृश्यमानस्य पात्यमानस्य वा पुनः॥३६॥
स ज्वालापरिवारस्तु निर्दहन्निव राक्षसम् । तेन स्पृष्टो बलवता महापहरणोऽस्फुरत्॥३७॥
ततो विदुद्रुवुः सर्वे तस्मात्त्रस्ता रणाजिरे । सुराश्च क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम्॥३८॥
तस्मिन् प्रहर्तुकामे तु यमे दण्डेन रावणम् । यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत्॥३९॥
वैवस्वत महाबाहो न खल्वमितविक्रम । न हन्तव्यस्त्वया तेन दण्डेनैष निशाचरः॥४०॥
वरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव । स त्वया नानृतः कार्यों यन्मया व्याहृतं वचः ॥४१॥
यो हि मामनृतं कुर्याद्दैवो वा मानुषोऽपि वा। त्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः॥४२॥
क्रुद्धन विप्रमुक्तोऽयं निर्विशेष प्रियाप्रिये । प्रजाः संहरते रौद्रो लोकत्रयभयावहः ॥४३॥
अमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः । कालदण्डो मया सृष्टः पूर्वं 'मृत्युपुरस्कृतः॥४४॥
तन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि। न ह्यस्मिन् पतिते कश्चिन्मुहूर्तमपि जीवति ॥४५॥
यदि ह्यस्मिन्निपतिते न म्रियतैष राक्षसः म्रियते वा दशग्रीवस्तदा ह्यभयतोऽनृतम् ॥४६॥
तन्निवर्तय लङ्केशाद्दण्डमेतं समुद्यतम् । सत्यं च मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे ॥४७॥
एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा । एष व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान्॥४८॥
किं त्विदानी मया शक्यं कर्तुं रणगतेन हि । न मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः ॥४९।
एष तस्मात् प्रणश्यामि दर्शनादद्य रक्षसः । इत्युक्ता सरथः साश्वस्तत्रैवान्तरधीयत ॥५०॥
दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः । आरुह्य पुष्पकं भूयो निष्क्रान्तो यमसादनात् ॥५१॥
स तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः। जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ॥५२॥


इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम्

उत्तरकाण्डे यमजयो नाम द्वाविंशः सर्गः