पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६४
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

पाशमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः । येन संक्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् ॥४॥
कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत् । यमप्रहरणं दिव्यं तेजसा ज्वलदग्निमत्॥५॥
तस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः । पावकस्पर्शसंकाशाः स्थितो मूर्तश्च मुद्गरः॥६॥
ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः । कालं दृष्ट्वा तथा क्रुद्धं सर्वलोकमयावहम् ॥७॥
ततः प्रचोदयन् सूतस्तानश्वान् रुधिरप्रभान् । प्रययौ भीमसंनादो यत्र रक्षःपतिः स्थितः ॥८॥
मुहर्तेन यम ते तु हया हरियोपमाः । प्रापयन् मनसस्तुल्या यत्र तत् प्रस्तुतं रणम् ॥९॥
दृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम् । सचिवा राक्षसेन्द्रस्य सहसा विप्रदुद्रुवुः ॥१०॥
लधुसत्त्वतया ते हि नष्टसंज्ञा भयार्दिताः । नेह योद्धुं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः॥११॥
स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् । नाक्षुभ्यत दशग्रीवो न चापि भयमाविशत्॥१२॥
स तु रावणमासाद्य व्यसृजच्छक्तितोमरान् । यमो मर्माणि संक्रुद्धो रावणम्योपकृन्तत॥१३॥
मर्मसु च्छिधमानेषु रावणो राक्षसेश्वरः । ययौ स्तब्धो रुजं धोरां भिद्यमान इवाचलः॥ १४
रावणस्तु ततः स्वस्थः शरवर्षं मुमोच ह । तस्मिन् वैवस्वतरथे तोयवर्षमिवाम्बुदः ॥१५॥
ततो महाशक्तिशतैः पात्यमानो महोरसि । नाशक्नोत् प्रतिकर्तुं स राक्षसः शल्यपीडितः॥१६॥
एवं नानाप्रहरणैर्यमेनामित्रकर्शिना । सप्तरात्रं कृतः संख्ये न भग्नो विजितोऽपि वा॥ १७॥
तदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः । जयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः॥१८॥
ततो देवाः सगन्धर्वा सिद्धाश्च परमर्षयः । प्रजापति पुरस्कृत्य समेतास्तद्रणाजिरम्॥१९॥
संवर्त इव लोकानां युध्यतोरभवत्तदा । राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ॥२०॥
राक्षसेन्द्रोऽपि विस्फार्य चापमिन्द्राशनिप्रभम्।निरन्तरमिवाकाशं कुर्वन् बाणांस्ततोऽसृजत्॥२१॥
मृत्युं चतुर्मिविशिखैः सूतं सप्तभिरर्दयत् । यम शतसहस्रेण शीघ्रं मर्मस्वताडयत् ॥२२॥
ततः कुद्धस्य वदनाद्यमस्य समजायत । ज्वालामाली सनिश्वासः सधूमः कोपपावकः ॥२३॥
तदाश्चर्यमथो दृष्ट्वा देवदानवसंनिधौ । प्रहर्षितौ सुसंरब्धौ मृत्युकालौ बमूवतुः ॥२४॥
ततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत । मुच्च मां समरे यावद्धन्मीमं पापराक्षसम् ॥२५॥
नैषा रक्षो भवेदद्य मर्यादा हि निसर्गतः । हिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा ॥२६॥
विसंधिधूमकेतुश्च बलिवैरोचनोऽपि च । दम्भुर्दैत्यमहाराजो वृत्रो बाणस्तथैव च ॥२७॥
राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः। ऋषयः पन्नगा दैत्या यज्ञाश्चाप्यप्सरोगणाः ॥२८॥