पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकविंशः सर्गः

यमरावणयुद्धम्

एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः । आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ॥ १
अपश्यत् स यमं तत्र देवमग्निपुरस्कृतम् । विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ॥ २
स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् । अब्रवीत् सुखमासीनमर्घ्यमावेद्य धर्मतः ॥ ३
कञ्चित् क्षेमं नु देवर्षे कश्चिद्धर्मो न नश्यति । किमागमनकृत्यं ते देवगन्धर्वसेवित ॥ ४
अब्रवीतु तदा वाक्यं नारदो भगवानृषिः । श्रूयतामभिधास्यामि विधानं च विधीयताम् ॥ ५
एष नाम्ना दशग्रीवः पितृराज निशाचरः। उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ॥ ६
एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो । दण्डप्रहरणस्याद्य तव किंनु भविष्यति ॥ ७
एतस्मिन्नन्तरे दूरादंशुमन्तमिवोदितम् । ददर्श दीप्तमायान्तं विमानं तस्य रक्षसः ॥ ८
तं देशं प्रभया तस्य पुष्पकस्य महाबलः । कृत्वा वितिमिरं सर्वं समीपं सोऽभ्यवर्तत ॥ ९
सोऽपश्यत् सुमहाबाहुर्दशग्रीवस्ततस्ततः । प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ॥ १०
अपश्यत् सैनिकांश्चास्य यमस्यानुचरैः सह । यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः ॥११
ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः । क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ॥ १२
कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः । श्रोत्रायासकरा वाचो वदनश्च भयावहाः ॥ १३
संतार्यमाणान् वैतरणीं बहुशः शोणितोदकाम् । वालुकासु च तप्तासु तप्यमानान् मुहुर्मुहुः ॥
असिपत्रवने चैव भिद्यमानानधार्मिकान् । रौरवे क्षारनद्यां च क्षुरधारासु चैव हि ॥ १५
पानीयं याचमानांश्च तृषितान क्षुधितानपि । शवभूतान कृशान् दीनान् विवर्णान् मुक्तमूर्धजान्
मलपङ्कधरान् दीनान् रूक्षांश्च परिधावतः । ददर्श रावणो मार्गे शतशोऽथ सहस्रशः ॥ १७
कांश्चिच्च गृहमुख्येषु गीतवादित्रनिःस्वनैः । प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः ॥ १८
गोरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः । गृहांश्च गृहदातारः स्वकर्मफलमश्नतः ॥ १९
सुवर्णमणिमुक्ताभिः प्रमदाभिरलङ्कृतान् । धार्मिकानपरांस्तत्र दीप्यमानान् स्वतेजसा ॥ २०
ददर्श सुमहाबाहू रावणो राक्षसाधिपः । ततस्तान् भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः ॥ २१
रावणो मोचयामास विक्रमेण बलाद्बली। प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा ॥ २२
सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम् । प्रेतेषु मुच्यमानेषु राक्षसेन बलीयसा ॥ २३
प्रेतगोपाः सुसंक्रुद्धा राक्षसेन्द्रमभिद्रवन् । ततो हलहलाशब्दः सर्वदिग्भ्यः सुमुत्थितः ॥ २४
धर्मराजस्य योधानां शूराणां संप्रधावताम् । ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः ॥ २५
पुष्पकं समवर्षन्त शूराः शतसहस्रशः । तस्यासनानि प्रासादान् वेदिकास्तोरणनि च ॥ २६
पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव । देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे ॥ २७