पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४३
पञ्चदश: सर्गः

यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते । पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ॥१९॥
यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः । स तस्य परिणामान्ते जानीते कर्मणः फलम् ॥२०॥
देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् । येन त्वमीदृशं भावं नीतः सन्नावबुध्यसे ॥२१॥
मातरं पितरं यो हि आचार्यं चावमन्यते । स पश्यति फलं तस्य प्रेतराजवशं गतः ॥२२॥
अध्रुवे हि शरीरे यो न करोति तपोऽर्जनम् । स पश्चात्तप्यते मूढो मृतो दृष्ट्वात्मनो गतिम् ॥२३॥
धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च । तस्माद्धर्मं सुखार्थाय कुर्यात् पापं विसर्जयेत् ॥२४॥
पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना । तस्मादात्मापघातार्थं मूढः पापं करिष्यति ॥२५॥
कस्यचिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः । यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥२६॥
बुद्धिं रूपं बलं पुत्रान् वित्तं धीरत्वमेव च । प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ॥२७॥
एवं निरयगामी त्वं यस्य ते मतिरीदृशी । न त्वां समभिभाषिष्येऽसद्वृतेष्वेष निर्णयः ॥२८॥
एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः । मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ॥२९॥
ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना । गदयाभिहतो मूर्ध्नि न च स्थानात् प्रकम्पितः ॥ ३०॥
ततस्तौ राम निघ्नन्तौ तदान्योन्य महामृधे । न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ॥३१॥
आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा। राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ॥ ३२॥
ततो मायां प्रविष्टोऽसौ राक्षसी राक्षसेश्वरः। रूपाणां शतसाहस्रं विनाशाय चकार च ॥३३॥
व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः । यक्षो दैत्यस्वरूपी च सोऽदृश्यत दशाननः॥३४॥
बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः । प्रतिगृह्य ततो राम महदस्रं दशाननः ॥३५॥
जधान मूर्ध्नि धनदं व्याविध्य महतीं गदाम् । एवं स तेनाभिहतो विह्वल: शोणितोक्षितः ॥३६॥
कृत्तमूल इवाशोको निपपात धनाधिपः । ततः पद्मादिभिस्तत्र निधिभिः स तदावृतः ॥३७॥
धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् । निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः ॥३८॥
पुष्पकं तस्य जग्राह विमानं जयलक्षणम् । काञ्चनस्तम्भसंवीतं वैदूर्यमणितोरणम् ॥ ३९॥
मुक्ताजालप्रतिच्छन्नं सर्वकामफलप्रदम् । मनोजवं कामगमं कामरूपं विहंगमम् ॥४०॥
मणिकाञ्चनसोपानं तप्तकाश्चनवेदिकम् । देवोपवाह्मक्षय्यं सदा दृष्टिमनःसुखम् ॥४१॥
ब्रह्माश्चर्य भक्तिचित्रं ब्रह्मणा परिनिर्मितम् । निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् ॥४२॥
न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् । स तं राजा समारुह्य कामगं वीर्यनिर्जितम् ॥४३॥
जितं त्रिभुवनं मेने दर्पोत्सेकात् सुदुर्मतिः । जित्वा वैश्रवणं देवं कैलासात् समवातरत् ॥ ४४॥