पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५२
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे


स वार्यमाणो यक्षेण प्रविवेश निशाचरः । यदा तु वारितो राम न व्यतिष्ठत् स राक्षसः॥२६॥
ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः । रुधिरं प्रस्रवन् भाति शैलो धातुस्रवैरिव ॥२७॥
स शैलशिखरामेण तोरणेन समाहतः। जगाम न क्षतिं वीरो वरदानात् स्वयंभुवः॥२८॥
तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः । नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ॥२९॥
ततः प्रदुद्रुवुः सर्वे दृष्ट्वा रक्षःपराक्रमम् । ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः ।। ३०
त्यतपहरणाः शान्ता विवर्णवदनास्तदा ।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

उत्तरकाण्डे यक्षरक्षोयुद्धं नाम चतुर्दशः सर्गः




पञ्चदशः सर्गः

पुष्पकहरणम्


ततस्ताँल्लक्ष्य वित्रस्तान् यक्षेन्द्रांश्च सहस्रशः । धनाध्यक्षो महायक्ष्ं माणिचारमथाब्रवीत् ॥१॥
रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् । शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ॥२॥
एवमुक्तो महबाहुर्माणिभद्रः सुदुर्जयः । वृतो यक्षसहत्रैस्तु चतुर्भिः समयोधयत् ॥३॥
तं गदामुसलप्रासैः शक्तितोमरमुद्गरैः । अभिघ्नन्तस्तदा यक्षा राक्षसान् समुपाद्रवन् ॥४॥
कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु । बाढं प्रयच्छ नेच्छामि दीयतामिति भाषिणः॥५॥
ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः । दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् ॥ ६॥
यक्षाणां तु प्रहस्तेन सहसं निहतं रणे । महोदरेण चाविध्य सहस्रमपरं हतम् ॥७॥
कुद्धेन च तदा राजन् मारीचेन युयुत्सुना। निमेषान्तरमात्रेण द्वे सहस्रे निपातिते ॥८॥
क्व च यक्षार्जवं युद्धं क्व च मायाबलाश्रयम् । रक्षसां पुरुषव्याघ्र तेन तेऽभ्यधिका युधि ॥९॥
धूम्राक्षेण समागम्य माणिभद्रो महारणे । मुसलेनोरसि क्रोधात्ताडितो न च कम्पितः ॥१०॥
ततो गदां समाविध्य माणिभद्रेण राक्षसः । धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ॥११॥
धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् । अभ्यधावत संग्रामे माणिभद्रं दशाननः ॥१२॥
तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् । शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ॥१३॥
ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे । तस्य तेन प्रहारेण मुकुटं पार्श्वमागतम् ॥१४॥
ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत । तदा प्रभृति यक्षोऽसौ पार्श्वमौलिरिति स्मृतः ॥१५॥
तस्मिस्तु विमुखे यक्षे माणिभद्रे महात्मनि । सन्नादः सुमहान् राजेस्तस्मिन्दौले व्यवर्धत ॥१६॥
ततो दूरात् प्रददृशे धनाध्यक्षो गदाधरः । शुक्रप्रौष्ठपदाभ्यां च शङ्खपद्मसमावृतः ॥१७॥
स दृष्ट्वा भ्रातरं संख्ये शापाद्विभ्रष्टगौरवम् । उवाच वचनं धीमान् युक्तं पैतामहे कुले ॥१८॥