पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१००९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४०
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् । राजन् वदामि ते सर्वं भ्राता तव यदप्रवीत् ॥१७॥
उभयोः सदृशं वीर वृतस्य च कुलस्य च । साधु पर्याप्तमेतावत् कृतश्चारित्रसंग्रहः ॥१८॥
साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते । दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः ॥१९॥
देवतानां समुद्योगस्त्वत्तो राजन् मम श्रुतः । निराकृतश्च बहुशस्त्वयाहं राक्षसाधिप ॥२०॥
सापराधोऽपि बालो हि रक्षितव्यः स्वबान्धवैः । अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् ॥२१॥
रौद्रं वृत्तं समास्थाय नियतो नियतेन्द्रियः । तत्र देवो मया दृष्टः सह देव्योमया प्रभुः ॥२२॥
सव्यं चक्षुर्मया दैवातत्र देव्यां निपातितम् । कान्वियं स्यादिति शुभा न खल्वन्येन हेतुना ॥१३॥
रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति । देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम् ॥२४॥
रेणुध्वस्तमिव ज्योतिः पिङ्गलत्यमुपागतम् । ततोऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् ॥२५॥
तूष्णीं वर्षशतान्यष्टौ समधारं महाव्रतम् । समाते नियमे तस्मिंस्तत्र देवो महेश्वरः ॥२६॥
प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः । पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् ॥२७॥
प्रीतोऽस्मि तव धर्मज्ञ तपसा तेन सुव्रत । मया चैतद्वतं चीणं त्वया चैव धनाधिप ॥ २८॥
तृतीयः पुरुषो नास्ति यश्चरेद्व्रतमीदृशम् । व्रतं 'सुदुष्करं ह्येतन्मया ह्युत्पादितं पुरा ॥ २९॥
तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर । तपसा निर्जितश्चाहं सखा मम भवानघ ॥ ३०॥
देव्या दग्धं प्रभावेण यच्च सव्यं तवेक्षणम् । एकाक्षिपिङ्गलेत्येवं नाम स्थास्यति शाश्वतम् ॥३१॥
एवं तेन सखित्वं च प्राप्यानुज्ञां च शङ्करात् । आगत्य च श्रुतोऽयं मे तव पापविनिश्चयः ॥३२॥
तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् । चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव ॥३३॥
एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः । हस्तौ दन्तांश्च संपीड्य वाक्यमेतदुवाच ह ॥ ३४॥
विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे । नैव त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ॥३५॥
हितं नैष ममैतद्धि ब्रवीति धनरक्षकः । महेश्वरसखित्वं तु मूढ श्रावयसे किल ॥ ३६॥
न चेदं क्षमणीयं मे यदेतद्धाषितं त्वया । यदेतावन्मया कालं दूत तस्य तु मर्षितम् ॥३७॥
न हन्तव्यो गुरुर्ज्येष्ठो मयायमिति मन्यते । तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ॥३८॥
त्रील्लोकानपि जेप्यामि बाहुवीर्यमुपाश्रितः । एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते ॥३९॥
चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् । एवमुक्त्वा तु ल्ङ्केशो दूतं खड्गेन जग्निवान् ॥४०॥
ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् । ततः कृतस्वस्त्ययनो रथमारुह्य रावणः । ॥४१॥
त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः ॥


इत्याषे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिआयां संहितायाम्

उत्तरकाण्डे धनददूतहननं नाम त्रयोदशः सर्ग: