पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१००८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४९
त्रयोदशः सर्गः

सरो मा वर्धयेस्वेति ततः सा सरमाभवत् । एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः ॥२७॥
स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने । ततो मन्दोदरी पुत्रं मेघनादमजीजनत् ॥२८॥
स एव इन्द्रजिन्नाम युष्माभिरभिधीयते । जातमात्रेण हि पुरा तेन रावणसूनुना ॥ २९॥
रुदता सुमहान् मुक्तो नादो जलधरोपमः । जडीकृता च सा लङ्का तस्य नादेन राघव ॥ ३०
पिता तस्याकरोन्नाम मेघनाद इति स्वयम् । सोऽवर्धत तदा राम रावणान्तःपुरे शुभे ॥ ३१॥
रक्ष्यमाणो परस्त्रीभिश्छन्नः काष्ठैरिवानलः । मातापित्रोर्महाहर्षं जनयन् रावणात्मजः ॥३२॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

उत्तरकाण्डे रावणादिविवाहे नाम द्वादशः सर्गः


त्रयोदशः सर्गः

धनददूतहननम्

अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित । निद्रा समभवत्तीत्रा कुम्भकर्णस्य रूपिणी ॥१॥
ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः । निद्रा मां बाधते राजन् कारयस्व ममालयम् ॥२॥
विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् । अकुर्वन् कुम्भकर्णस्य कैलाससममालयम् ॥३॥
विस्तीर्णं योजनं शुभं ततो द्विगुणमायतम् । दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे ॥४॥
स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् । वैदृर्यकृतसोपानं किङ्किणीजालकं तथा ॥५॥
दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् । मनोहरं सर्वमुखं कारयामास राक्षसः ॥६॥
सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव । तत्र निद्रासमाविष्टः कुम्भकर्णो महाबलः ॥७॥
बहून्यब्दसहस्राणि शयानो न प्रबुध्यते । निद्राभिभूते तु तदा कुम्भकर्णे दशाननः ॥८॥
देवर्षियक्षगन्धर्वान् संजघ्ने हि निरङ्कुशः । उद्यानानि च चित्राणि नन्दनादीनि यानि च ॥९॥
तानि गत्वा सुसंकुद्धो भिनत्ति स दशाननः । नदी गज इव क्रीडन् वृक्षान् वायुरिव क्षिपन् ॥१०॥
नगान् वज्र इवोत्सृष्टो विध्वंसयति राक्षसः । तथावृतं तु विज्ञाय दशग्रीवं धनेश्वरः ॥११॥
कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः । सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा ॥१२॥
लङ्कां संप्रेषयामास दशग्रीवस्य वै हितम् । स गत्वा नगरीं लङ्कामाससाद विभीषणम् ॥ १३॥
मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति । पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च विभीषणः ॥ १४॥
सभायां दर्शयामास तमासीनं दशाननम् । स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा ॥ १५॥
जयेति वासा संपूज्य तूष्णीं समभिवर्तत । स तत्रोत्तमपर्यङ्के वरस्तरणशोभिते ॥ १६ ॥