पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१००५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४६
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

मारीचश्च प्रहस्तश्च विरुपाक्षो महोदरः । उदतिष्ठन् सुसंरब्धाः सचिवास्तस्य रक्षसः ॥२॥
सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः । अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ॥३॥
दिष्ट्या ते वत्स संप्राप्तश्चिन्तितोऽयं मनोरथः । यस्त्वं त्रिभुवनश्रेष्ठाल्लब्धवान् वरमुत्तमम् ॥४॥
यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम् । तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ॥५॥
असकृतद्भयाद्भीताः परित्यज्य स्वमालयम् । विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ॥६॥
अस्मदीया च ल यं नगरी राक्षसोचिता। निवेशिता तव मात्रा धनाध्यक्षेण धीमता ॥७॥
यदि नामात्र शक्यं स्यात् साना दानेन वानघ । तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत्॥८॥
वं तु लङ्केश्वरस्तात भविष्यसि न संशयः । त्वया राक्षसवंशोऽयं निमग्नोऽपि समुद्धृतः ॥९॥
सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल । अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् ॥१०॥
वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम् । साम्नापि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा ॥११॥
किंचिन्नाह तदा रक्षो ज्ञात्वा तस्य चिकीर्षितम् । कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः ॥१२॥
उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः । प्रहस्तः प्रश्रितं वाक्यमिदमाह सकारणम् ॥१३॥
दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् । सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ॥१४॥
अदितिश्च दितिश्चैव भगिन्यौ सहिते हिते । भायें परमरूपिण्यौ कश्यपस्य प्रजापतेः ॥१५॥
अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् । दितिस्त्वजनयत् पुत्रान् कश्यपस्यात्मसंभवान् ॥१६॥
दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा। सपर्वता मही वीर तेऽभवन् प्रभविष्णवः ॥१७॥
निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना । देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ॥१८॥
नैतदेको भवानेव करिष्यति विपर्ययम् । सुरासुरैराचरितं तत् कुरुष्व वचो मम ॥१९॥
एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना । चिन्तयित्वा मुहूर्तं वै बाढमित्येव सोऽब्रवीत् ॥२०॥
स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् । वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ॥२१॥
त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः । प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् ॥२२॥
प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम् । वचसा मम वित्तेशं सामपूर्वमिदं वचः ॥२३॥
इयं लङ्कापुरी राजन् राक्षसानां महात्मनाम् । त्वया निवेशिता सौम्य नेतयुक्तं तवानष ॥२४॥
तद्भवान् यदि नो ह्यद्य दद्यादतुलविक्रम । कृता भवेन्मम प्रीतिधर्मश्चैवानुपालितः ॥२५॥
स तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम् । अब्रवीत् परमोदारं वित्तपालमिदं वचः ॥२६॥
प्रेषितोऽहं तव भ्रात्रा दशग्रीवेण सुव्रत । त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर ॥२७॥
तच्छ्रूतां महाप्राज्ञ सर्वशास्त्रविशारद । वचनं मम वित्तेश यद्ब्रवीति दशाननः ॥२८॥