पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१००४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४५
एकादशः सर्गः

विमीषण त्वया वत्स धर्मसंहितबुद्धिना। परितुष्टोऽस्मि धर्मात्मन् वरं वरय सुव्रत ॥२८॥
विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः । वृत्तः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ॥२९॥
भगवन् कृतकृत्योऽहं यन्मे लोकगुरुः स्वयम्। प्रीतेन यदि दाताव्यो वरो मे शृणु सुव्रत॥३०॥
परमापद्गतस्यापि धर्मे मम मतिर्भवेत् । अशिक्षितं च ब्रह्मास्त्रं भगवन् प्रतिभातु मे ॥३१॥
या या मे जायते बुद्धिर्येषु येप्वाश्रमेषु च । सा सा भवनु धर्मिष्ठा तं तु धर्मं च पालये॥३२॥
एष मे परमोदार वरः परमको मतः । न हि धर्माभिरक्तानां लोके किंचन दुर्लभम् ॥३३॥
पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह । धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ॥३४॥
यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन । नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ॥३५॥
इत्युक्तवा कुम्भकर्णाय बरं दातुमुपस्थितम् । प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽब्रुवन् ॥३६॥
न तावत् कुम्भकर्णाय प्रदातव्यो वरस्त्वया । जानी हि यथा लोकांस्त्रासयत्येष दुर्मतिः ॥३७॥
नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दश । अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ॥३८॥
अलब्धवरपूर्वेण यत् कृतं राक्षसेन तु। तदेष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम् ॥ ३९॥
वरव्याजेन मोहोऽम्मै दीयताममितप्रभ । लोकानां स्वस्ति चैवं स्याद्भवेदस्य च संनतिः॥ ४०॥
एवमुक्तः सुरैर्ब्रह्माचिन्तयत् पद्मसंभवः । चिन्तिता चोपतस्थेऽस्य पार्श्वं देवी सरस्वती ॥ ४१॥
प्राञ्जलिः सा तु पार्श्वस्था वाक्यं प्राह सरस्वती। इयमस्म्यागता देव किं कार्यं करवाण्यहम् ॥४२॥
प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरस्वतीम्। वाणि त्वं राक्षसेन्द्रास्ये भव या देवतेप्सिता ॥४३॥
तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत्। कुम्भकर्ण महाबाहो वरं वरय यो मतः ॥४४॥
कुम्भकर्णस्तु नद्वाक्यं श्रुत्वा वचनमब्रवीत् । स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ॥४५॥
एवमस्त्विति तं चोत्तवा प्रायाद्ब्रह्मा सुरैः समम् । देवी सरस्वती चैव राक्षसं तं जहौ पुनः ॥४६॥
ब्रमणा सह देवेषु गतेषु च नभःस्थलम् । विमुक्तोऽसौ सरस्वत्या स्वां संज्ञां च ततो गतः ॥४७॥
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः । ईदृशं किमिदं वाक्यं ममाघ वदनाच्च्युतम् ॥४८॥
अहं व्यामोहितो देवैरिति मन्ये तदागतैः । एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः ॥४९॥
श्लेष्मातकवनं गत्वा तत्र ते न्यवसन् सुखम् ॥


इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम्

उत्तरकाण्डे रावणादिवरदानं नाम दशमः सर्गः



एकादशः सर्गः

रावणलङ्काप्राप्तिः

सुमाली वरलब्धांस्तु ज्ञात्वा चैतान् निशाचरान् । उदतिष्ठद् भयं त्यत्तवा सानुगः स रसातलात् ॥१॥