पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१००२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४३
नवमः सर्गः

उवाच केकसीं भूयः पूर्णेन्दुरिव रोहिणीम् । पश्चिमो यस्तव सुतो भविष्यति शुभानने॥२६॥
मम वंशानुरूपः स धर्मात्मा च भविष्यति। एवमुक्ता तु सा कन्या राम कालेन केनचित्॥२७॥
जनयामास बीभत्सं रक्षोरूपं सुदारुणम् । दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम्॥२८॥
ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् । तस्मिञ्जाते तु तत्काले सज्वालकबलाः शिवाः॥२९॥
कन्यादाश्वापसव्यानि मण्डलानि प्रचक्रमुः। ववर्ष रुधिरं देवो मेघाश्च खरनिस्वनाः ॥३०॥
प्रबभौ न च सूर्यो वै महोल्काश्चापतन् भुवि । चकम्पे जगती चैव बवुर्वाताः सुदारुणाः॥३१॥
अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः । अथ नामाकरोत्तस्य पितामहसमः पिता ॥३२॥
दशग्रीवः प्रसूतोऽयं दशग्रीवो भविष्यति । तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः ॥३३॥
प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते । ततः शूर्पणखा नाम संजज्ञे विकृतानना ॥३४॥
विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः । तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह ॥३५॥
नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा । वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तथा ॥३६॥
तौ तु तत्र महारण्ये ववृधाते महौजसौ । तेषां क्रूरो दशग्रीवो लोकोद्वेगकरोऽभवत् ॥ ३७॥
कुम्भकर्णः प्रमत्तस्तु महर्षीन् धर्मवत्सलान् । त्रैलोक्यं भक्षयन्नित्यासंतुष्टो विचचार ह ॥ ३८॥
विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः । स्वाध्यायनियताहार उवास विजितेन्द्रियः ॥३९॥
अथ वैश्रवणो देवस्तत्र कालेन केनचित् । आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ॥४०॥
तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा । आगम्य राक्षसी तत्र दशग्रीवमुवाच ह ॥४१॥
पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् । भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥४२॥
दशग्रीव तथा यत्नं कुरुष्वामितविक्रम । यथा त्वमसि मे पुत्र भव वैश्रवणोपमः ॥४३॥
मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् । अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ॥४४॥
सत्यं ते प्रतिजानामि भ्रातृतुल्योऽधिकोऽपि वा ! भविष्याम्योजसा चैव संतापं त्यज हृद्गतम्॥४५॥
ततस्तेनैव कोपेन दशग्रीवः सहानुजः । चिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः ॥४६॥
प्राप्स्यामि तपसा काममिति कृत्वाध्यवस्य च ।आगच्छदात्मसिद्धयर्थं गोकर्णस्याश्रमं शुभम्॥४७॥

  स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः ।
  अतोषयञ्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् । ४८


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकारयां संहितायाम्

उत्तरकाण्डे रावणाद्युत्पत्तिनाम नवमः सर्गः