त्रयोदशोऽध्यायः 211 आत्मन एव च उदिती तां मन्यते, तदापि सर्वकर्तृत्त्वात् न लेपभाक्; यतः असौ परमात्मैव शरीरस्थोऽपि न लिप्यते आकाशवत् ॥ ३०-३२ ॥ यथा प्रकाशयत्येक कृत्स्नं लोकमिमं रविः । क्षेत्र क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥ यथेति । ननु एकः परमात्मा कथमनेकानि क्षेत्राणि व्याप्नोति? इत्याशङ्का प्रसिद्धेन रविणा दृष्टान्तेय अपाकृता । कृत्स्नं क्षेत्रम्, चराचराणि क्षेत्राणीत्यर्थः ॥ ३३ ॥ क्षेत्रक्षेत्रज्ञ योरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ३४ ॥ ॥ इति श्रीमद्भगवद्गीतायां त्रयोदशोऽध्यायः ॥ क्षेत्रेति । एवमध्यायेन यदुक्तं ज्ञेयं, ज्ञानं, क्षेत्रक्षेत्वज्ञयो- रन्तरं, भूतप्रकृतेश्च स्वल्पात् परिणामधर्मत्वात् मोचनम्, तत् ये ज्ञानलक्षणेन 2 सर्वताप्रतिहतेन अलौकिकेन चक्षुषा पश्यन्ति ते वासुदेवतां प्राप्य लभन्त एव परमं शिवमिति ॥ ३४ ॥ ॥ शिवम् || अब संग्रहश्लोक:- पुमान् प्रकृतिरित्येष भेदः संमूढचेतसाम् । परिपूर्णास्तु मन्यन्ते निर्मलात्ममयं जगत् ॥ 1. 2. 3. ॥ इति श्रीमहामाहेश्वराचार्यवर्य राजानकाभिन व गुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे वयोदशोऽध्यायः ॥ G4759 B, N क्षेत्रक्षेत्रज्ञयोरन्तरं भूतप्रकृतेरन्तरं भूतप्रकृतेश्च S, B, N येन ज्ञानलक्षणेन B, N परं
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२७२
दिखावट