पृष्ठम्:श्रीमद्भगवद्गीता.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
[अ०२क्ष्लो ०७०-७१]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता--


जागर्ति प्रबुध्यते । यस्यां तु विषयनिष्ठायां भूतानि जाग्रति प्रबुध्यन्ते साऽऽत्मतत्त्वं पश्यतो मुनर्निशा । तस्यां दर्शनादिव्यापारस्तस्य नास्तीत्यर्थः । एतदुक्तं भवति--- यथा दिवान्धानामुलूकादीनां रात्रावेव दर्शनं न तु दिवसे, एवं ब्रह्मज्ञस्योन्मीलिताक्षस्यापि ब्रह्मण्येव दृष्टिर्न तु विषयेषु । अतो नासंभावितमिदं लक्षणमिति ॥ ६९ ॥

 म० टी०एतादृशस्य स्थितप्रज्ञस्य सर्वविक्षेपशान्तिरप्यर्थसिद्धेति सदृष्टान्तमाह-

आपूर्यमाणमचलप्रतिष्ठं ।
 समुद्रमापः प्रविशन्ति यत् ॥
तद्वत्कामा यं प्रविशन्ति सर्वे
 स शान्तिमाप्नोति न कामकामी ॥ ७० ॥

 सर्वाभिर्नदीभिरापूर्यमाणं सन्तं वृष्ट्यादिप्रमवा अपि सर्वा आपः समुद्रं प्रविशन्ति । कीदृशमचलप्रतिष्ठमनतिक्रान्तमर्यादम् । अचलानां मैनाकादीनां प्रतिष्ठा यस्मिन्निति वा गाम्भीर्यातिशय उक्तः । यद्वद्येन प्रकारेण निर्विकारत्वेन तद्वत्तेनैव निर्विकारत्वप्रकारेण यं स्थितप्रज्ञं निर्विकारमेव सन्तं कामा अक्षैर्लोकैः काम्यमानाः शब्दाद्याः सर्वे विषया अवर्जनीयतया प्रारब्धकर्मवशात्प्रविशन्ति न तु विकर्तुं शक्नुवन्ति । स महासमुद्रस्थानीयः स्थितप्रज्ञः शान्ति सर्वलौकिकालौकिककमविक्षेपानिवृत्तिं बाधितानु[१]वृत्ता[२]विद्याकार्यनिवृत्तिं चाऽऽप्नोति ज्ञानबलेन । न कामकामी कामान्विषयान्कामयितुं शीलं यस्य स कामकाम्यज्ञः शान्तिं व्याख्यातां नाऽऽप्नोति । अपि तु सर्वदा लौकिकालौकिककर्मविक्षेपेण महति क्लेशार्णवे मग्नो भवतीति वाक्यार्थः । एतेन ज्ञानिन एव फलभूतो विद्वत्संन्यासस्तस्यैव च सर्वविक्षेपनिवृत्तिरूपा जीवन्मुक्तिर्दैवाधीनविषयभोगेऽपि निर्विकारतेत्यादिकमुक्तं वेदितव्यम् ॥ ७० ॥

 श्री० टी०--ननु विषयेषु दृष्ट्यभावे कथमसौ तान्भुङ्क इत्यपेक्षायामाह---आपूर्यमाणमिति । नानानदीभिरापूर्यमाणमपि अचलप्रतिष्ठमनतिक्रान्तमर्यादमेव समुद्र पुनरम्यन्या आपो यथा प्रविशन्ति तथा कामा विषया यं मुनिमन्तर्दृष्टिं भोगैरविक्रियमाणमेव प्रारब्धकर्मभिराक्षिप्ताः सन्तः प्रविशन्ति स शान्तिं कैवल्यं प्राप्नोति न तु कामकामी भोगकामनाशीलः ॥ ७० ॥

 म० टी०--यस्मादेवं तस्मात्प्राप्तानपि---

विहाय कामान्यः सर्वान्पुमांश्चरति निस्पृहः ॥
निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥ ७१ ॥


  1. ख. ग. घ. ङ. छ. झ. अ. वृत्त्याऽवि' ।
  2. के. “त्ताववि ।