भ्यामात्मविषया बुद्धिः । प्रज्ञैव नोत्पद्यते कुतस्तस्याः प्रतिष्ठावार्ता । कुत इत्यत
आह-न चायुक्तस्य भावना ध्यानम् । भावनया हि बुद्धेरात्मनि प्रतिष्ठा भवति । सा
चायुक्तस्य यतो नास्ति । न चाभावयत आत्मध्यानमकुर्वतः शान्तिरात्मनि चित्तोपरतिः ।
अशान्तस्य[१] कुतः सुखं मोक्षानन्द इत्यर्थः ॥ ६६ ॥
म० टी०-अयुक्तस्य कुतो नास्ति बुद्धिरित्यत आह-
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ॥ |
चरतां स्वविषयेषु प्रवर्तमानानामवशीकृतानामिन्द्रियाणां मध्ये यदेकमपीन्द्रियमनुलक्षीकृत्य मनो विधीयते प्रेयते प्रवर्तत इति यावत् । कर्मकर्तरि लकारः । तदिन्द्रियमेकमपि मनसाऽनुसृतमस्य साधकस्य मनसो वा प्रज्ञामात्मविषयां शास्त्रीयां हरति अपनयति मनसस्तद्विषयाविष्टत्वात् । यदैकमपीन्द्रियं प्रज्ञां हरति तदा सर्वाणि हरन्तीति किमु वक्तव्यमित्यर्थः । दृष्टान्तस्तु स्पष्टः । अम्भस्येव वायोर्नौकाहरणसामर्थ्यं न भुवीति सूचयितुमम्भसीत्युक्तम् । एवं दार्ष्टन्तिकेऽप्यम्भःस्थानीये मनश्वाञ्चल्ये सत्येव प्रज्ञाहरणसामर्थ्यमिन्द्रियस्य न तु भूस्थानीये मनःस्थैर्य इति सूचितम् ॥ ६७ ॥
श्री० टी०-नास्ति बुद्धिरयुक्तस्येत्यत्र हेतुमाह-इन्द्रियाणामिति । इन्द्रियाणामवशीकृतानां स्वैरं विषयेषु चरतां मध्ये यदेवैकमिन्द्रयं मनोऽनुविधीयतेऽवशीकृतं सदिन्द्रियेण सह गच्छति तदेवैकमिन्द्रियमस्य मनसः पुरुषस्य वा प्रज्ञां बुद्धिं हरति विषयविक्षिप्तां करोति किमुत वक्तव्यं बहूनि प्रज्ञां हरन्तीति । यथा प्रमत्तस्य कर्णधारस्य नावं वायुः समुद्रे सर्वतः प[२]रिभ्रमयति तद्वत् ॥ ६७ ॥
म० टी०-हि यस्मादेवम् ----
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ॥ |
सर्वशः सर्वाणि समनस्कानि । हे महाबाहो, इति संवोधयन्सर्वशत्रुनिवारणक्षमत्वादिन्द्रियशत्रुनिवारणेऽपि त्वं क्षमोऽसीति सूचयति । स्पष्टमन्यत् । तस्येति सिद्धस्य साधकस्य च परामर्शः । इन्द्रियसंयमस्य स्थितप्रज्ञं प्रति लक्षणत्वस्य मुमुक्षुं प्रति प्रज्ञासाधनत्वस्य चोपसंहरणीयत्वात् ॥ ६८ ॥
श्री० टी०-इन्द्रियसंयमस्य स्थितप्रज्ञत्वे साधनत्वं लक्षणत्वं चोक्तमुपसंहरति-