पृष्ठम्:श्रीमद्भगवद्गीता.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०२क्ष्लो०५८]
८५
श्रीमद्भगवद्गीता ।


मावस्य तदर्थत्वादिति द्रष्टव्यम् । तत्तत्प्रारब्धकर्मपरिप्रापितं शुभं सुखहेतु विषय प्राप्य नाभिनन्दति हर्षविशेषपुरःसरं न प्रशंसति । अशुभं दुःखहेतुं विषयं प्राप्य न द्वेष्टि अन्तरसूयापूर्वकं न निन्दति । अज्ञस्य हि सुखहेतुर्यः स्वकलत्रादिः से शुभो विषयस्तद्गुणकथनादिप्रवर्तिका धीवृत्तिर्भ्रान्तिरूपाऽभिनन्दः । स च तामसः, तद्गुणकथनादेः परप्ररोचनार्थत्वाभावेन व्यर्थत्वात् । एवमसूयोत्पादनेन दुःखहेतुः । परकीयविद्याप्रकर्षादिरेनं प्रत्यशुभो विषयस्तन्निन्दादिप्रवर्तिका भ्रान्तिरूपा धीवृत्तिद्वेषः । सोऽपि तामसः, तन्निन्दाया निवारणार्थत्वाभावेन व्यर्थत्वात् । तावभिनन्दद्वेषौ भ्रान्तिरूपौ तामसौ कथमभ्रान्ते शुद्धसत्वे स्थितप्रज्ञे संभवतां तस्माद्विचालकाभावात्तस्यानभिस्नेहस्य हर्षविषादरहितस्य मुनेः प्रज्ञा परमात्मतत्त्वविषया प्रतिष्ठिता फलपर्यवसायिनी स स्थितप्रज्ञ इत्यर्थः । एवमन्योऽपि मुमुक्षुः सर्वत्रानभिस्नेहो भवेत् । शुभं प्राप्य न प्रशंसेत्, अशुभं प्राप्य न निन्देदित्यभिप्रायः । अत्र च निन्दाप्रशंसादिरूपा वाचो न प्रभाषेतेति व्यतिरेक उक्तः ॥ ५७ ॥

 श्री० टी०-कथं प्रभाषेतेत्यस्येत्तरमाह-य इति । यः सर्वत्र पुत्रमित्रादिष्वपि अनाभलेहः स्नेहशून्यः । अत एव बाधितानुवृत्त्या तत्तच्छुभमनुकूलं प्राप्य नाभिनन्दति न प्रशंसति । अशुभं प्रतिकूल प्राप्य न द्वेष्टि न निन्दति । किं तु केवलमुदासीन एव भाषते, तस्य प्रज्ञा प्रतिष्ठितेत्यर्थः ॥ ५७ ॥

 म० टी०-इदानीं किमासीतेति प्रश्नस्योत्तरं वक्तुमारभते भगवान्षड्भिः श्लोकैः । तत्र प्राब्धकर्मवशाद्व्युत्थानेन विक्षिप्तानीन्द्रियाणि पुनरुपसंहृत्य समाध्यर्थमेव स्थित प्रज्ञस्योपवेशनमिति दर्शयितुमाह---

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ॥
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥५८ ॥

 अयं व्युत्त्थितः सर्वशः सर्वाणीन्द्रियाणीन्द्रियार्थेभ्यः शब्दादिभ्यः सर्वेभ्यः । चः पुनरर्थे । यदा संहरते पुनरुपसंहरति संकोचयति । तत्र दृष्टान्तः कूर्मोङ्गानीव । तदा तस्य प्रज्ञा प्रतिष्ठितेति स्पष्टम् । पूर्वलोकाभ्यां व्युत्थानदशायामपि सकलता- मसवृत्त्यभाव उक्तः । अधुना ते पुनः समाध्यवस्थायां सकलवृत्त्यभाव इति विशेषः ॥ ५८ ॥

 श्री० टी०----किं च---यदेति '। यदा चायं योगीन्द्रियार्थेभ्यः शब्दादिभ्यः सकाशादिन्द्रियाणि संहरते प्रत्याहरति । अनायासेन संहारे दृष्टान्तः----अङ्गानि करचरणादीनि कूर्मों यथा स्वभावेनैवाऽऽकर्षति तद्वत् ॥ ५८ ॥

 म० टी०---ननु मूढस्यापि रोगादिवशाद्विषयेभ्य इन्द्रियाणामुपसंहरणं भवति तत्कथं तस्य प्रज्ञा प्रतिष्ठितेत्युक्तमत आह---