पृष्ठम्:श्रीमद्भगवद्गीता.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
[अ० २क्ष्लो०५७]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्य समेता-


तथा सुखेषु सत्त्वपरिणामरूपप्रत्यात्मकचित्तवृत्तिविशेषेषु त्रिविधेषु प्रारब्धपुण्यकर्मप्राप्तेितेषु विगतस्पृह आगामितज्जातीयसुखस्पृहारहितः । स्पृहा हि नाम सुखानुभवकाले तज्जातीयसुखस्य कारणं धर्ममननुष्ठाय वृथैव तदाकाङ्क्षारूपा तामसी चित्तवृत्तिर्भ्रान्तिरेव । सा चाविवेकिन एव जायते । न हि कारणाभावे कार्य भवितुमर्हति । अतो यथा सति कारणे कार्यं मा भूदिति वृथाकाङ्क्षारूप उद्वेगो विवेकिनो न संभवति तथैवासति कारणे कार्यं भूयादिति वृथाकाङ्क्षारूपा तृष्णात्मिका स्पृहाऽपि नोपपद्यते प्रारब्धकर्मणः सुखमात्रप्रापकत्वात् । हर्षात्मिका वा चित्तवृत्तिः स्पृहाशब्देनोक्ता । साऽपि भ्रान्तिदेव-अहो धन्योऽहं यस्य ममेदृशं सुखमुपस्थितं को वा मया तुल्यस्त्रिभुवने केन वोपायेन ममेदृशं सुखं न विच्छिद्यतेत्येवमात्मिकोत्फुल्लतारूपा तामसी चित्तवृत्तिः । अत एवोक्तं भाष्ये---* नाग्निरिवेन्धनाद्याधाने यः सुखान्यनुविवर्धते स विगतस्पृहः' इति । वक्ष्यति च----" न प्रहृप्ये- त्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्" इति । साऽपि न विवेकिनः संभवति भ्रान्तित्वात् । तथा वीतरागभयक्रोधः । रागः शोभनाध्यासनिबन्धनो विषयेषु रञ्जनात्मकश्चित्तवृत्तिविशेषोऽत्यन्ताभिनिवेशरूपः । रागविषयस्य नाशके समुपस्थिते तन्निवारणासामर्थ्यमात्मनो मन्यमानस्य दैन्यात्मकश्चित्तवृत्तिविशेषो भयम् । एवं रागविषयविनाशके समुपस्थिते तन्निवारणसामर्थ्येमात्मनो मन्यमानस्याभिज्वलनात्मकश्चित्तवृत्तिविशेषः क्रोधः । ते सर्वे विपर्ययरूपत्वाद्विगता यस्मात्स तथा । एतादृशो मुनिर्मननशीलः संन्यासी स्थितप्रज्ञ उच्यते । एवंलक्षणः स्थितधीः स्वानुभवप्रकटनेन शिष्यशिक्षार्थमनुद्वेगनिस्पृहत्वादिवाचः प्रभाषत इत्यन्वय उक्तः । एवं चान्योऽपि मुमुक्षुर्दुःखे नोद्विजेत्सुखे न प्रहृष्येत् , रागभ- यक्रोधरहितश्च भवेदित्यभिप्रायः ॥ ५६ ॥

 श्री० टी०–किं च-दुःखेष्विति । दुःखेषु प्राप्तेष्वपि अनुद्विग्नमक्षुभितं मनो यस्य सः । सुखेषु विगता स्पृहा यस्य सः । तत्र हेतुः---वीता अपगती रागभयक्रोधा यस्मात् । तत्र रागः प्रीतिः । स मुनिः स्थितधीः स्थितप्रज्ञ इत्युच्यते ॥ ५६ ॥

 म० टी०-किं च---

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ॥
नाभिनन्दति न दृष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥

 सर्वदेहेषु जीवनादिष्वपि यो मुनिरनभिस्नेहः, यस्मिन्सत्यन्यदीये हानिवृद्धी स्वस्मिन्नारोप्येते स तादृशोऽन्यविषयः प्रेमापरपर्यायस्तामसो वृत्तिविशेषः स्नेहः सर्वप्रकारेण तद्रहितोऽनभिस्नेहः । भगवति परमात्मनि तु सर्वथाऽभिस्नेहवान्भवेदेव, अनात्मस्नेहा-