पृष्ठम्:श्रीमद्भगवद्गीता.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० २क्ष्लो०५३.]
८१
श्रीमद्भगवद्गीता ।


 न ह्येतावता कालेन सत्त्वशुद्धिर्भवतीति कालनियमोऽस्ति । किंतु यदा यस्मिन्काले ते तव बुद्धिरन्तःकरणं मोहकलिलं व्यतिरिष्यति अविवेकात्मकं कालुष्यमहमिदं ममेदमित्याद्यज्ञानविलसितमतिगहनं व्यतिक्रमिष्यति रजस्तमोमलमपहाय शुद्धभावमाप त्स्यत इति यावत् । तदा तस्मिन्काले श्रोतव्यस्य श्रुतस्य च कर्मफलस्य निर्वेदं वैतृष्ण्यं गन्तासि प्राप्तासि । “ परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायात् " इति श्रुतेः । निवेदेन फलेनान्तःकरणशुद्धिं ज्ञास्यसीत्यभिप्रायः ॥ ५२ ॥

 श्री० टी०-कदा तत्पदमहं प्राप्स्यामीत्यपेक्षायामाह यदेति द्वाभ्याम्---मोहो देहादिष्वात्मबुद्धिस्तदेव कलिलं गहन कलिलं गहने विदुरित्यभिधानकोशस्मृतेः । ततश्चायमर्थः-एवं परमेश्वराराधने क्रियमाणे यदा तत्प्रसादेन तव बुद्धिदेहाभिमानलक्षणं मोहमयं गहनं दुर्ग विशेषणातितरिष्यति तदा श्रोतव्यस्य श्रुतस्य चार्थस्य निर्वेद वैराग्यं गन्तासि प्राप्स्यसि । तयोरनुपादेयत्वेन जिज्ञासां न करिष्यसीत्यर्थः ॥ ५२ ॥

 म० टी०–अन्तःकरणशुद्धयैवं जातनिर्वेदस्य कदा ज्ञानप्राप्तिरित्यपेक्षाया- माह-

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ॥
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥

 ते तव बुद्धिः श्रुतिभिर्नानाविधफलश्रवणैरविचरिततात्पर्यैर्विप्रतिपन्नाऽनेकविध संशयविपर्यासवत्वेन विक्षिप्ता प्राक्, यदा यस्मिन्काले शुद्धिजविवेकजनितेन दोषदर्शनेन तं विक्षेपं परित्यज्य समाधौ परमात्मनि निश्चला जाग्रत्स्वप्नदर्शनलक्षणविक्षेपरहिताऽचला सुषुप्तिमूर्च्छास्तब्धीभावादिरूपलवलक्षण चलनरहिता सती स्थास्यति लयविक्षेपलक्षणौ दोषौ परित्यज्य समाहिता भविष्यतीति यावत् । अथवा निश्चलाऽसंभावनाविपरीतभावनारहिताऽचला दीर्घकालादरनैरन्तर्यसत्कार सेवनैर्विजातीयप्रत्ययादूषिता सती निर्वातप्रदीपवदात्मनि स्थास्यतीति योजना । तदा तस्मिन्काले योगं जीवपरमात्मैक्यलक्षणं तत्त्वमस्यादिवाक्यजन्यमखण्डसाक्षात्कारं सर्वयोगफलमवाप्स्यसि । तदा पुनः साध्यान्तराभावात्कृतकृत्यः स्थितप्रज्ञो भविष्यसीत्यभिप्रायः ॥ ५३ ॥

 श्री० टी०-ततश्च -श्रुतीति । श्रुतिभिर्नानावैदिकलौकिकार्थश्रवणैर्विप्रतिपन्नेतः पूर्वं विक्षिप्ता सती ते तव बुद्धिर्यदा समाधौ स्थास्यति समाधीयते चित्तमस्मिन्निति समाधिः परमेश्वरस्तस्मिन्निश्चला विषयान्तरैरनाकृष्टाऽत एवाचलाऽभ्यासपटुत्वेन तत्रैव स्थिरा च सती तदा योगं योगफलं तत्त्वज्ञानमवाप्स्यसि ॥ ५३ ॥

 म० टी०एवं लब्धावसरः स्थितप्रज्ञलक्षणं ज्ञातुमर्जुन उवाच । यान्येव हि जीवन्मुक्तानां लक्षणानि तान्येव मुमुक्षुणां मोक्षोपायभूतानीति मन्वानः--