पृष्ठम्:श्रीमद्भगवद्गीता.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
[अ० २क्ष्लो०५१]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता---


त्कौशलं समत्वबुद्धियुक्तः कर्मयोगः कर्मात्माऽपि सन्दृष्टकर्मक्षयं करोतीति महाकुशलत्त्वं तु न कुशलो यतश्चेतनोऽपि सन्सजातीयदुष्टक्षयं न करोषीति व्यतिरेकोऽत्र ध्वनितः । अथवा-इह समत्वबुद्धियुक्ते कर्मणि कृते सति सत्त्वशुद्धिद्वारेण बुद्धियुक्तः परमात्मसाक्षात्कारवान्सञ्जात्युभे सुकृतदुष्कृते । तस्मात्समत्वबुद्धियुक्ताय कर्मयोगाय युज्यस्व । यस्मात्कर्मसु मध्ये समत्वबुद्धियुक्तः कर्मयोगः कौशलं कुशलो दुष्टकर्मनिवारणचतुर इत्यर्थः ॥ ५० ॥

 श्री० टी०-बुद्धियोगयुक्तस्तु श्रेष्ठ इत्याह-बुद्धीति । सुकृतं स्वर्गादिप्रापकं दुष्कृतं निरयादिप्रापकं ते उभे इहैव जन्मनि परमेश्वरप्रसादेन जहाति त्यजति । तस्माद्योगाय तदर्थाय कर्मयोगाय युज्यस्व घटस्व । यतः कर्मसु यत्कौशलं बन्धकानामपि तेषामीश्वराराधनेन मोक्षपरत्वसंपादनचातुर्यं स एव योगः ॥ ५० ॥

 म० टी०-ननु दुष्कृतहानमपेक्षितं न तु सुकृतहानं पुरुषार्थभ्रंशापत्तेरित्याशङ्कय तुच्छफलत्यागेन परमपुरुषार्थप्राप्तिं फलमाह-

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ॥
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥

 समत्वबुद्धियुक्ता हि यस्मात्कर्मजं फलं त्यक्त्वा केवलमीश्वराराधनार्थं कर्माणि कुर्वाणाः सत्त्वशुद्धिद्वारेण मनीषिणस्तत्त्वमस्यादिवाक्यजन्यात्ममनीषावन्तो भवन्ति । तादृशाश्च सन्तो जन्मात्मकेन बन्धेन विनिर्मुक्ता विशेषेणाऽऽत्यन्तिकत्वलक्षणेन निरवशेषं मुक्ताः पदं पदनीयमात्मतत्त्वमानन्दरूपं ब्रह्मानामयमविद्यातत्कार्यात्मकरोगरहितमभयं मोक्षाख्यं पुरुषार्थं गच्छन्त्यभेदेन प्राप्नुवन्तीत्यर्थः । यस्मादेवं फलकामनां त्यक्त्वा समत्वबुद्धया कर्माण्यनुतिष्ठन्तस्तैः कृतान्तःकरणशुद्धयस्तत्त्वमस्यादिप्रमाणोत्पन्नात्मतत्त्वज्ञानविनष्टाज्ञानतत्कार्याः सन्तः सकलानर्थनिवृत्ति परमानन्दप्राप्तिरूपं मोक्षाख्यं विष्णोः परमं पदं गच्छन्ति तस्मात्त्वमपि यच्छ्रेयः स्यानिश्चितं ब्रूहि तन्म इत्युक्तेः श्रेयो जिज्ञासुरेवंविधं कर्मयोगमनुतिष्ठेति भगवतोऽभिप्रायः ॥ ५१ ॥

 श्री० टी०-कर्मणां मेक्षिसाधनत्वप्रकारमाह-कर्मेति । कर्मजं फलं त्यक्त्वा केवलमीश्वराराधनार्थं कर्माणि कुर्वाणा मनीषिणो ज्ञानिनो भूत्वा जन्मरूपेण बन्धेन विनिर्मुक्ताः सन्तोऽनामयं सर्वोपद्रवरहितं विष्णोः पदं मोक्षाख्यं गच्छन्ति ॥ ५१ ॥

 म० टी०एवं कर्मण्यनुतिष्ठतः कदा मे सत्त्वशुद्धिः स्यादित्यत आह-

यदा ते मोहकलिलं बुद्धियतितरिष्यति ॥
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ ५२ ॥

३ ख. ग. घ. ङ. च. छ. ज. झ. ञ. ’रयप्रा’ ।