पृष्ठम्:श्रीमद्भगवद्गीता.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० २क्ष्लो० ४९-५०]
७९
श्रीमद्भगवद्गीता ।


 म० टी०-ननु किं कर्मानुष्ठानमेव पुरुषार्थों येन निष्फलमेव सदा कर्तव्यमित्युच्यते " प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते " इति न्यायात्, तद्वरं फलकामनयैव कर्मानुष्ठानमिति चेन्नेत्याह-

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय ॥
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥

 बुद्धियोगादात्मबुद्धिसाधनभूतान्निष्कामकर्मयोगाह्ररेणातिविप्रकणावरमधर्म · कर्म फलाभिसंधिना क्रियमाणं जन्ममरणहेतुभूतम् । अथवा परमात्मबुद्धियोगाद्दुरेणावरं सर्वमपि कर्म हि यस्माद्धे धनंजय तस्माद्बुद्धौ परमात्मबुद्धौ सर्वानर्थनिवर्तिकायां शरणं प्रतिबन्धकपापक्षयेण रक्षकं निष्कामकर्मयोगमन्विच्छ कर्तुमिच्छ । ये तु फलहेतवः फलकामा अवरं कर्म कुर्वन्ति ते कृपणाः सर्वदा जन्ममरणादिघटीयन्त्रभ्रमणेन परवशी अत्यन्तदीना इत्यर्थः । " यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रेति स कृपणः " इति श्रुतेः । तथा च त्वमपि कृपणो मा भूः किंतु सर्वार्थनिवर्तकात्मज्ञानोत्पादकं निष्काम कर्मयोगमेवानुतिष्ठेत्यभिप्रायः । यथा हि कृपणा जना अतिदुःखेन धनमर्जयन्तो यत्किंचिदृृष्टसुखमात्रलोभेन दानादिजनितं महत्सुखमनुभवितुं न शक्नुवन्तीत्यात्मानमेव वञ्चयन्ति तथा महता दुःखेन कर्माणि कुर्वाणाः क्षुद्रफलमात्रलोभेन परमानन्दानुभवेन वञ्चिता इत्यहो दौभाग्यं मौढ्यं च तेषामिति कृपणपदेन ध्वनितम् ॥ ४९ ॥

 श्री० टी०-काम्यं तु कर्मातिनिकृष्टमित्याह-दूरेणेति । बुद्धया व्यवसायात्मिकया कृतः कर्मयोगो बुद्धियोगः, बुद्धिसाधनभूतो वा, तस्मात्सकाशादन्यत्काभ्यं कर्म दूरेणावरमत्यन्तमपकृष्टम् । हि यस्मादेवं तस्माद्बुद्धौ ज्ञाने शरणमाश्रयं कर्मयोगमन्विच्छानुतिष्ठ । यद्वा बुद्धौ शरणं त्रातारमीश्वरमाश्रयेत्यर्थः । फलहेतवस्तु सकामा नराः कृपणा दीनाः । "यो वा एतदक्षरमविदित्वा गार्ग्यस्माल्लोकात्प्रैति स कृपणः इति श्रुतेः ॥ ४९ ॥

 म० टी०एवं बुद्धियोगाभावे दोषमुक्त्वा तद्भावे गुणमाह-

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ॥
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥५०॥

 इह कर्मसु बुद्धियुक्तः समत्वबुध्ध्या युक्तो जहाति परित्यजति उभे सुकृतदुष्कृते पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण । यस्मादेवं तस्मात्समत्वबुद्धियोगाय त्वं युज्यस्व घटस्वोद्युक्तो भव । यस्मादीदृशः समत्वबुद्धियोग ईश्वरार्पितचेतसः कर्मसु प्रवर्तमानस्य कौशलं कुशलभावो यद्बन्धहेतूनामपि कर्मणां तदभावो मोक्षपर्यवसायित्वं च तन्मह-