पृष्ठम्:श्रीमद्भगवद्गीता.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
[अ०२ क्ष्लो २०४८]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


इयभावेऽपि कर्म स्वसामर्थ्यादेव फलं जनायिष्यतीति चेन्नेत्याह-मा कर्मफलहेतुर्भू:, फलकामनया हि कर्म कुर्वन्फलस्य हेतुरुत्पादको भवति । त्वं तु निष्कामः सन्कर्मफलहेतुर्मा भूः । न हि निष्कामेन (ण) भगवदर्पणबुद्धया कृतं कर्म फलाय कल्पत इत्युक्तम् । फलाभावे किं कर्मणेत्यत आह-मा ते सङ्गोऽस्त्वकर्मणि, यदि फलं नेष्यते किं कर्मणा दुःखरूपेणेति अकरणे तव प्रीतिर्मा भूत् ॥ ४७॥

 श्री० टी०---तर्हि सर्वकर्मफलानि परमेश्वराराधनादेव भविष्यन्तीत्यभिसंधाय प्रवर्तेत्याशङ्कय तद्वारयन्नाह-कर्मण्येवेति । ते तव तत्त्वज्ञानार्थिनः कर्मण्येवाधिकारः । तत्फलेषु बन्धहेतुष्वधिकारः कामो माऽस्तु । ननु, कर्मणि कृते तत्फलं स्यादेव भोजने कृते तृप्तिवदित्याशङ्कयाऽऽह-मा कर्मफलहेतुर्भूः । कर्मफले प्रवृत्तिहेतुर्यस्य तथाभूतो मा भूः । कामितस्यैव स्वर्गादिनियोज्यविशेषणत्वेन फलत्वादकामितं फलं न स्यादिति भावः । अत एव फलं बन्धकं भविष्यतीति भयादकर्मणि कर्माकरणेऽपि तव सङ्गो निष्ठा माऽस्तु ॥ ४७ ॥

 म० टी०-पूर्वोक्तमेव विवृणोति-

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ॥
सिद्धयसिद्धयोः समो भूत्वा समत्वं योग उच्यते ॥४८॥

 हे धनंजय त्वं योगस्थः सन्सङ्गं फलाभिलाषं कर्तृत्वाभिनिवेशं च त्यक्त्वा कर्माणि कुरु । अत्र बहुवचनात्कर्मण्येवाधिकारस्त इत्यत्र जातानेकवचनम् । सङ्गत्यागोपायमाह---सिध्द्यसिध्ध्योः समो भूत्वा फलसिद्धौ हर्षं फलासिद्धौ च विषादं त्यक्त्वा केवलमीश्वराराधनबुद्धया कर्माणि कुर्वित्यर्थः । ननु योगशब्देन प्राक्कर्मोक्तम् । अत्र तु योगस्थः कर्मणि कुर्वित्युच्यते । अतः कथमेतद्वोढुं शक्यमित्यत आह-समत्वं योग उच्यते । यदेतत्सिदध्ध्यसिध्ध्योः समत्वमिदमेव योगस्थ इत्यत्र योगशब्देनोच्यते न तु कर्मेति न कोऽपि विरोध इत्यर्थः । अत्र पूर्वार्धस्योत्तरार्धेन व्याख्यानं क्रियत इत्यपौनरुक्त्यमिति भाष्यकारीयः पन्थाः । “सुखदुःखे समे कृत्वा" इत्यत्र जयाजयसाम्येन युद्धमात्रकर्तव्यता प्रकृतत्वादुक्ता । इह तु दृष्टादृष्टसर्वफलपरित्यागेन सर्वकर्मकर्तव्यतेति विशेषः ॥ ४८॥

 श्री० टी०किं तर्हि-योगस्थ इति । योगः परमेश्वरैकपरता तत्र स्थितः कर्माणि कुरु । तथा[१]पि सङ्गे कर्तृत्वाभिनिवेशं त्यक्त्वा केवलमीश्वराश्रयेणैव कुरु । तत्फलस्य ज्ञानस्यापि सिध्ध्यसिध्ध्योः सम भूत्वा केवलमीश्वरा[२]र्पणेनैव कुरु । यत एवंभूतं समत्वमेव योग उच्यते सद्भिः, चित्तसमाधानरूपत्वात् ॥ ४८ ॥


  1. क. ख. ग. घ. ङ. छ. छ. ज. अ. °था स’ ।
  2. च. `रार्थमेव ।