पृष्ठम्:श्रीमद्भगवद्गीता.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ०१ क्ष्लो ०१ ]
श्रीमद्भगवद्गीता ।


दुर्योधनादयः पाण्डवाश्च युधिष्ठिरादयः किमकुर्वत किं कृतवन्तः । किं पूर्वोद्भूत्युयुत्सानुसारेण युद्धमेव कृतवन्त उत केनचिन्निमित्तेन युयुत्सानिवृत्याऽन्यदेव किंचित्कृतवन्तः । भीष्मार्जुनादि वीरपुरुषनिमित्तं दृष्टभयं युयुत्सानिवृत्तिकारणं प्रसिद्धमेव । अदृष्टभयमपि दर्शयितुमाह --धर्मक्षेत्र इति । धर्मस्य पूर्वमविद्यमानस्योत्पतर्विद्यमानस्य च वृद्धेर्निमित्तं सस्यस्येव क्षेत्रं यत्कुरुक्षेत्रं सर्वश्रुतिस्मृतिप्रसिद्धम् । " बृहस्पतिरुवाच याज्ञवल्क्यं यदन कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम्” इति जाबालश्रुतेः, “कुरुक्षेत्रं वै देवयजनम्” इति शतपथश्रुतेश्च । तस्मिन्गताः पाण्डवाः पूर्वमेव धार्मिका यदि पक्षद्वयहिंसानिमित्तादधर्माद्भीता निवर्तेरंस्ततः प्राप्तराज्या एव मत्पुत्राः । अथवा धर्मक्षेत्रमाहात्म्येन पापानामपि मत्पुत्राणां कदाचिञ्चित्तप्रसादः स्यात्तदा च तेऽनुतप्ताः[१] कपटोपात्तं राज्यं पाण्डवेभ्यो यदि दद्युस्तर्हि विनाऽपि युद्धं हता एवेति स्वपुत्रराज्य लाभे पाण्डवराज्यालाभे च दृढतरमुपायमपश्यतो महानुद्वेग एवं प्रश्नबीजम् । संजयेति च संबोधनं रागद्वेषादिदोषान्सम्यग्जितवानसीति कृत्वा निर्व्याजमेव कथनीयं त्वयेतिसूचनार्थम् । मामकाः किमकुर्वतेत्येतावतैव प्रश्ननिर्वाहे पाण्डवाश्चेति पृथनिर्दिशन्पाण्डवेषु ममकाराभावप्रदर्शनेन[२] तद्रोहमभिव्यक्ति ॥ १ ॥

( श्रीधरस्वामिकृता टीका ।)

शेषाशेषमुखव्याख्याचातुर्यं त्वेकवक्त्रतः ॥
दधानमद्भुतं वन्दे परमानन्दमाधवम् ॥ १ ॥
श्रीमाधवं प्रणम्योमाधवं विश्वेशमादरात् ॥
तद्भक्तियन्त्त्रितः कुर्वे गाताव्याख्यां सुबोधिनीम् ॥ २ ॥
भाष्यकारमतं सम्यक्तव्याख्यातृगिरस्तथा ॥
यथामति समालोड्य गीताव्याख्या समारमे ॥ ३ ॥

 + ध. पुस्तक इतः प्राक्-* नारायणं नमस्कृत्य० ॥ १ ॥ यं ब्रह्मा वरुणेन्द्र० ॥ २ ॥ पाराशर्यवचःसरोजममलं० ॥ ३ ॥ वसुदेवसुतं देवं० ॥ ४ ॥ मूकं करोति वाचाऽलं० ॥ ५ ॥” इति श्लोकपञ्चकं विद्यते ॥

 * छ. पुस्तके शेषाशेषेत्यादिश्लोकचतुष्टयस्थाने-“एक तज्जनयत्यनेकतनुभृत्सस्यान्यजस्रं मिथोभिन्नाकारगुणानि कैश्चिदपि वा नोप्तं न सिक्तं जलैः । कालेनापि न जीर्यते हुतभुजा नो दह्यते क्लियते नाद्भिस्तत्सकलस्य बीजमसकृद्बह्माभिधं धीमहि ॥ १ ॥ श्रीमत्पद्मजतार्क्ष्यपन्नगशुकप्रहलाद भीष्मोद्धवव्यासाक्रूरपराशरध्रुवमुखान्वन्दे मुकुन्दप्रियान् । यैस्तथैरिव पावित त्रिभुवनं रत्नैरिवालंकृतं सदैवैरिव रक्षितं सुखकरैश्चन्द्ररिवाऽऽप्यायितम् ॥ २ ॥ सर्वोपनिषदो गावो दोग्धा गौपालनन्दनः । पार्थो वत्सः सुधीभॊक्ता दुग्धं गीतामृतं महत् ॥ ३ ॥ हृदि विकसितपद्मं सार्कसोमाग्निबिम्बं प्रणवमयविकारं यस्य पीठाग्निकल्पम् । अथ च परमसूक्ष्मं ज्योतिराकाशसारे स भवतु मनसो मे वासुदेवः प्रतिष्ठा ॥ ४ । नमोऽस्तु ते व्यास विशालबुद्धे ० ॥ ५ ॥ पार्थाय प्रतिबोधितां भगवता० ॥ ६ ॥” इति श्लोकषट्क ते।


  1. क. "प्ताः प्रक्रिय” ।
  2. ख. घ. ङ. च. छ. ज. झ. °न द्रौद्द ।