पृष्ठम्:श्रीमद्भगवद्गीता.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
[अ०२ ० ४० ]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


पादित इह निष्कामकर्मयोगे नास्ति, एतत्फलस्य शुद्धेः पापक्षयरूपत्वेन लोकशब्दवाच्यभोग्यत्वाभावेन च क्षयासंभवात् । वेदनपर्यन्ताया एव विविदिषायाः कर्मफलत्वाद्वेदनस्य चाव्यवधानेनाज्ञाननिवृत्तिफलजनकस्य फलमजनयित्वा नाशासंभवादिह फलनाशो नास्तीति साधूक्तम् । तदुक्तम्--

"तद्यथेहेति या निन्दा सा फले न तु कर्मणि ।
फलेच्छां तु परित्यज्य कृतं कर्म विशुद्धिकृत्' इति ॥

 तथा प्रत्यवायोऽङ्गवैगुण्यनिबन्धनं वैगुण्यमिह न विद्यते तमिति वाक्येन नित्यानामेवोपात्तदुरितक्षयद्वारेण विविदिषायां विनियोगात् । तत्र च सर्वाङ्गोपसंहारनियमाभावात् । काम्यानामपि संयोगपृथक्त्वन्यायेन विनियोग इति पक्षेऽपि फलाभिसंधिरहितत्वेन तेषां नित्यतुल्यत्वात् । नहि काम्यनित्याग्निहोत्रयोः स्वतः कश्चिद्विशेषोऽस्ति । फलाभिसंधितदभावाभ्यामेव तु काम्यत्वनित्यत्वव्यपदेशः । इदं च पक्षद्वयमुक्तं वार्तिके----

"वेदानुवचनादीनामैकात्म्यज्ञानजन्मने ।
तमेतमितिवाक्येन नित्यानां वक्ष्यते विधिः ॥
यद्वा विविदिषार्थत्वं काम्यानामपि कर्मणाम् ।
तमेतमिति वाक्येन संयोगस्य पृथक्त्वतः " इति ॥

 तथा च फलाभिसंधिना क्रियमाण एवं कर्मणि सर्वाङ्गोपसंहारनियमात्तद्विलक्षणे शुद्धयर्थे कर्मणि प्रतिनिध्यादिना समाप्तिसंभवान्नाङ्ग वैगुण्यनिमित्तः प्रत्यवायोऽस्तीत्यर्थः । तथाऽस्य शुद्धयर्थस्य धर्मस्य तमेतमित्यादिवाक्यविहितस्य मध्ये स्वल्पमपि संख्ययेतिकर्तव्यतया वा यथाशक्तिभगवदाराधनार्थं किंचिदप्यनुष्ठितं सन्महतः संसा- रभयात्त्रायते भगवत्प्रसादसंपादनेनानुष्ठातारं रक्षति ।

"सर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् ।
भूयस्तपस्वी भवति पङ्किपावनपावनः "

 इत्यादिस्मृतेः, तमेतमिति वाक्ये समुच्चयविधायकाभावाच्चाशुद्धितारतम्यादेवानुष्ठानतारतम्योपपत्तेर्युक्तमुक्तं कर्मवन्धं प्रहास्यसीति ॥ ४० ॥

 श्री० टी०-ननु कृष्यादिवत्कर्मणां कदाचिद्विन्नबाहुल्येन फले व्यभिचारान्मन्त्राद्यङ्गवैगुण्येन च प्रत्यवायसंभवात्कुतः कर्मयोगेन (ण) कर्मबन्धप्रहाणं तत्राऽऽहं--- नेहेति । इह निष्कामकर्मयोगेऽभिक्रमस्य प्रारम्भस्य नाशो निष्फलत्वं नास्ति । प्रत्यवायश्च न विद्यत ईश्वरोद्देशेनैव विघ्नवैगुण्याद्यसंभवात् । किं च---अस्य धर्मस्य स्वल्पमपि उपक्रममात्रमपि कृतं महतो भयात्संसारात्रायते रक्षति, न तु काम्यकर्मवत्किं-