पृष्ठम्:श्रीमद्भगवद्गीता.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ० २क्ष्लो० ३५ ]
६७
श्रीमद्भगवद्गीता ।


 "निर्जित्य पर सैन्यानि क्षिति धर्मेण पालयेत् ' इत्यादिशास्त्रविहितस्य युद्धस्याकरणात्स्वधर्मं हित्वाऽननुष्ठाय कीर्तिं च महादेवादेसमागमनिमित्तां हित्वा “ न निवर्तेत सङ्ग्रामात् " इत्यादिशास्त्रनिषिद्धसङ्ग्रामनिवृत्त्या च रणजन्यं पापमेव केवलमवाप्स्यसि न तु धर्म कीर्तिं चेत्यभिप्रायः । अथवाऽनेकजन्मार्जितं धर्मं त्यक्त्वा राजकृतं पापमेवावाप्स्यीत्यर्थः । यस्मात्त्वां परावृत्तमेते दुष्टा अवश्यं हनिष्यन्ति अतः परावृत्तहतः संश्चिरोपार्जितनिजसुकृतपरित्यागेन परोपार्जितदुष्कृतमात्रभाङय भूरित्यभिप्रायः ।

 तथा च मनुः----

"यस्तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः ।
भर्तुर्यदुष्कृतं किंचित्तत्सर्वं प्रतिपद्यते ॥
यच्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम् ।
भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु " इति ॥

 याज्ञवल्क्योऽपि " राजा सुकृतमादत्ते हतानां विपलायिनाम्” इति ।

तेन यदुक्तं---
 "पापमेवाऽऽश्रयेदस्मान्हत्वैतानाततायिनः ।
 एतान्न हन्तुमिच्छामि घ्तोऽपि मधुसूदन "

 इति तन्निराकृतं भवति ॥ ३३ ॥

 श्री० टी०- विपक्षे दोषमाह-अथ चैत्वमिति ॥ ३३ ॥

 म० टी०–एवं कीर्तिधर्मयोरिष्टयोरप्राप्तिरनिष्टस्य च पापस्य प्राप्तिर्युद्धपरित्यागे दर्शिता । तत्र पापाख्यमनिष्टं व्यवधानेन दुःखफलदमामुत्रिकत्वात्, शिष्टगर्हालक्षणं त्वनिष्टमासन्नफलदमत्यसह्यमित्याह-

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ॥
संभावितस्य चाकीर्तिमरणादतिरिच्यते ॥ ३४ ॥

 भूतानि देवर्षिमनुष्यादीनि ते तवाव्ययां दीर्घकालामकीर्तिं न धर्मात्माऽयं न शूरोऽयमित्येवंरूपां कथयिष्यन्त्यन्योन्यं कथाप्रसङ्गे । कीर्तिधर्मनाशसमुच्चयार्थौ निपातौ । न केवलं कीर्तिधर्मौ हित्वा पापं प्राप्स्यसि अपि तु अकीर्तिं च प्राप्स्याप्ति । न केवलं त्वमेव तां प्राप्स्यसि अपि तु भूतान्यपि कथयिष्यन्तीति वा निपातयोरर्थः । ननु युद्धे स्वमरणसंदेहात्तत्परिहारार्थमकीर्तिरपि सोढव्या, आत्मरक्षणस्यात्यन्तापेक्षितत्वात् । तथा चोक्तं शान्तिपर्वणि---

"साम्ना दानेन भेदेन समस्तैरुत वा पृथक् ।
विजेतुं प्रयतेतारीन्न युध्येत कदाचन ॥