ब्रह्महा मवेत् " इति च स्वजीवनार्थत्वादर्थशास्त्रम् । अत्रोच्यते--" ब्रह्मणे ब्राह्मणमालभेत?' इतिवद्युद्धविधायकमपि धर्मशास्त्रमेव “सुखदुःखे समे कृत्वा" इत्यत्र दृष्टप्रयोजनानपेक्षत्वस्य वक्ष्यमाणत्वात् । याज्ञवल्क्यवचनं तु दृष्टप्रयोजनोद्देश्यककू[१]टयुद्धादिकृतवधविषयमित्यदोषः। मिताक्षराकारस्तु धर्मार्थसंनिपातेऽर्थग्राहिण एतदेवेति द्वादशवार्षिकप्रायश्चित्तस्यैतच्छब्दपरामृष्टस्याऽऽपस्तम्बेन विधानान्मित्रलब्ध्याद्यर्थशास्त्रानुसारेण चतुष्पाद्वयहारे शत्रोरपि जये धर्मशास्त्रातिक्रमो न कर्तव्य इत्येतत्परं वचनमेतदित्याह । भवत्वेवं न नो हानिः । तदेवं युद्धकरणे सुखोक्तेः " स्वजनं हि कथं हत्वा सुखिनः स्याम माधव " इत्यर्जुनोक्तमपाकृतम् ॥ ३२ ॥
श्री० टी०-किं च महति श्रेयसि स्वयमेवोपगते सति कुतो विकम्पस इत्याहयदृच्छयेति । यदृच्छयाऽप्रार्थितमेवोपपन्नं प्राप्तमीदृशं युद्धं सुखिनः सभाग्या एवं लभन्ते । यतो निरावरणं स्वर्गद्वारमैवैतत् । यद्वा य एवंविधं युद्धं लभन्ते त एवं सुखिन इत्यर्थः । एतेन ‘‘स्वजनं हि कथं हत्वा सुखिनः स्याम" इति यदुक्तं तन्निरस्तं भवति ॥ ३२ ॥
म० टी०--ननु नाहं युद्धफलकामः " न काङ्क्षे विजयं कृष्ण " "अपि त्रैलोक्यराज्यस्य " इत्युक्तत्वात्तत्कथं मया कर्तव्यमित्याशङ्कयाकरणे दोषमाह-
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ॥ |
अथेति पक्षान्तरे । इमं भीष्मद्रोणादिवीरपुरुषप्रतियोगिकं धर्म्यं हिंसादिदोषेणादृष्टं सतां धर्मादनपेतमिति वा । स च मनुना दर्शितः--
"न कुटैरायुधैहन्यायुध्यमानो रणे रिपून् । |
सतां धर्ममुल्लङ्ग्य युध्यमानो हि पापीयान्स्यात् , त्वं तु परैराहूतोऽपि सद्धर्मोपेतमपि सङ्ग्रामं युद्धं न कारष्यसि धर्मतो लोकतो वा भीतः परावृत्तो भविष्यसि चेत्ततो
- ↑ घ. ङ. व. ज, झ. ञ. 'कूटायुधादि ।