पृष्ठम्:श्रीमद्भगवद्गीता.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
[अ० २० क्ष्लो ०३१]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता


स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ॥
धर्म्याद्वि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥३१॥

 न केवलं परमार्थतत्त्वमेवावेक्ष्य किं तु स्वधर्ममपि क्षत्रियधर्ममपि युद्धापराङ्मुखत्वरूपमवेक्ष्य शास्त्रतः पर्यालोच्य विकम्पितुं विचलितुं धर्मादधर्मत्वभ्रान्त्या निवर्ततुं नार्हसि । तत्रैवं सति यद्यप्येते न पश्यन्ति " इत्यादिना " नरके नियतं वासो भवति " इत्यन्तेन युद्धस्य पापहेतुत्वं त्वया यदुक्तं कथं भीष्ममह संख्ये' इत्यादिना च गुरुवचनह्यवधाद्यकरणं यदभिहितं तत्सर्वं धर्मशास्त्रापर्यालोचनादेवोक्तम् । कस्मात् , हि यस्माद्धर्म्यादपराङ्मुखत्वधर्मादनपेतायुद्धादन्यत्क्षत्रियस्य श्रेयः श्रेयःसाधनं न विद्यते । युद्धमेव हि पृथिवीजयद्वारेण प्रजारक्षणब्राह्मणशुश्रूषादिक्षात्रधर्मनिर्वाहकमिति तदेव क्षत्रियस्य प्रशस्ततरमित्यभिप्रायः । तथा चोक्तं पराशरेण--

"क्षत्रियो हि प्रजा रक्षञ्शस्त्रपाणिः प्रदण्डवान् ।
निर्जित्य परसैन्यानि क्षितिं धर्मेण पालयेत् " इति ॥

मनुनाऽपि ---
 "समोत्तमाधमै राजा चाऽऽहूतः पालयन्प्रजाः ।
 न निवर्तेत सङ्ग्रामात्क्षात्रं धर्ममनुस्मरन् ॥
 सङ्ग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् ।
 शुश्रूषा ब्राह्मणानां च राज्ञः श्रेयस्करं परम् " इत्यादिना ॥

 राजशब्दश्च क्षत्रियजातिमात्रवाचीति स्थितमेवेश्यधिकरणे । तेन भूमिपालस्यैवायं धर्म इति न भ्रमितव्यम् । उदादृतवचनेऽपि क्षत्रियो हीति क्षात्रं धर्ममिति च स्पष्टं लिङ्गम् । तस्मात्क्षत्रियस्य युद्धं प्रशस्तो धर्म इति साधु भगवताऽभिहितम् । “ अपशवोऽन्ये गोअश्वेभ्यः पशवो गोअश्वाः " इतिवत्प्रशंसालक्षण या युद्धादन्यच्छ्रेयःसाधनं न विद्यत इत्युक्तमिति न दोषः । एतेन युद्धात्प्रशस्ततरं किंचिदनुधातुं ततो निवृत्तिरुचितेति निरस्तम् । " न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ? इत्येतदपि ॥ ३१ ॥

 श्री०टी०-यञ्चोक्तमर्जुनेन वेपथुश्च शरीरे मे रोमहर्षश्च जायते' इति तदप्ययुक्तमित्याह–स्वधर्ममिति । आत्मनो नाशाभावादेवैतेषां हननेऽपि विकम्पितुं नार्हसि । किं च स्वधर्ममापि अवेक्ष्य विकम्पितुं नार्हसीति संबन्धः । यच्चोक्तं न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे " इत्यादि तत्राऽऽह--धर्म्यादिति । धर्मादनपेतान्याच्याद्युद्वादन्यत् ॥ ३१ ॥