पृष्ठम्:श्रीमद्भगवद्गीता.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ०२क्ष्लो० २८]
५९
श्रीमद्भगवद्गीता ।


सन्तं जातं चेन्मन्यसे तथा नित्यमपि सन्तं मृतं चेन्मन्यते तथाऽपि त्वं नानुशोचितुमर्हसीति प्रतिज्ञाय हेतुमाह-जातस्य हीत्यादिना । नित्यस्य जातत्वं मृतत्वं च प्राग्व्याख्यातं, स्पष्टमन्यत् । भाष्यमप्यास्मिन्पक्षे योजनीयम् ॥ २७ ॥

 श्री० टी०-कुत इत्यत आह---जातस्येति । हि यस्माज्जातस्य स्वारम्भककर्मक्षये मृत्युर्धुवो निश्चितः, मृतस्य च [१]तदेहकृतेन कर्मणा जन्मापि घ्रुवमेव । तस्मादेवमपरिहार्येऽर्थेऽवश्यंभाविनि जन्ममरणलक्षणेऽर्थे त्वं विद्वाञ्शोचितुं नार्हसि योग्यो न भव[२]सि ॥ २७ ॥

 म०टी०–तदेवं सर्वप्रकारेणाऽऽत्मनोऽशोच्यत्वमुपपादितमथेदानीमात्मनोऽशोच्यत्वेऽपि भूतसंघातात्मकानि शरीराण्युद्दिश्य शोचामीत्यर्जुनाशङ्कामपनुदति भगवान्

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ॥
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥

 आदौ जन्मनः प्रागव्यक्तानि अनुपलब्धानि भूतानि पृथिव्यादिभूतमयानि शरीराणि मध्ये जन्मानन्तरं मरणात्प्राग्व्यक्तानि उपलब्धानि सन्ति । निधने पुनरव्यक्तान्येव भवन्ति । यथा स्वप्मेन्द्रजालादौ प्रतिभासमात्रजीवनानि शुक्तिरूप्यादिवत्र तु ज्ञानात्प्रागूर्ध्वं वा स्थितानि दृष्टिसृष्टयभ्युपगमात् । तथा " चाऽऽदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा " इति न्यायेन मध्येऽपि न सन्त्येवैतानि । “नासतो विद्यते भावः" इति प्रागुक्तेश्च । एवं सति तत्र तेषु मिथ्याभूतेष्वत्यन्ततुच्छेषु भूतेषु का परिदेवना को वा दुःखप्रलापो न कोऽप्युचित इत्यर्थः । न हि स्वप्ने विविधान्बन्धूनुपलभ्य प्रतिबुद्धस्तद्विच्छेदेन शोचति पृथग्जनोऽपि । एतदेवोक्तं पुराणे-“अदर्शनादापतितः पुनश्चादर्शनं गतः " । भूतसंङ्घ इति शेषः । तथाच शरीराण्यप्युद्दिश्य शोको नोचित इति भावः । आकाशादिमहाभूताभिप्रायेण वा श्लोको योज्यः । अव्यक्तमव्याकृतमविंद्योपहितचैतन्यमादिः प्रागवस्था येषां तानि तथा व्यक्तं नामरूपाभ्यामेवाऽऽविद्यकाम्यां प्रकटीभूतं न तु स्वेन परमार्थसदात्मना मध्ये स्थित्यवस्था येषां तादृशानि भूतानि आकाशादीनि अव्यक्तनिधनान्येवाव्यक्ते स्वकारणे मृदीव घटादीनां निधनं प्रलयो येषां तेषु भूतेषु का परिदेवनेति पूर्ववत् । तथा च श्रुतिः "तद्धेदं तह्त्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत "इत्यादिव्यक्तोपादानतां सर्वस्य प्रपञ्चस्य दर्शयति । लयस्थानत्वं तु तस्यार्थसिद्धं कारण एवं कार्यलयस्य दर्शनात् । ग्रन्थान्तरे तु विस्तरः । तथाचाज्ञानकल्पितत्वेन तुच्छान्याकाशादिभूतान्यप्युद्दिश्य, शोको नोचितश्चेत्तत्कार्याण्युद्दिश्य नोचित इति किमु वक्तव्यमिति भावः । अथवा सर्वदा तेषामव्यक्तरूपेण विद्य-


  1. क. ख. घ. ङ. छ. ञ. तत्तद्दे ।
  2. के. ञ. “वसीस्यर्थः ॥ २७ ॥