पृष्ठम्:श्रीमद्भगवद्गीता.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ उपोद्घातः ]
श्रीमद्भगवद्गीता ।

निरुद्धे चेतसि पुरा सविकल्पसमाधिना ॥
निर्विकल्पसमाधिस्तु भवेदत्र त्रिभूमिकः ॥ २६ ॥
व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परबोधितः ॥
अन्त्ये व्युत्तिष्ठते नैव सदा भवति तन्मयः ॥ २७ ॥
एवंभूतो ब्राह्मणः स्याद्वरिष्ठो ब्रह्मवादिनाम् ॥
गुणातीतः स्थितप्रज्ञो विष्णुभक्तश्च कथ्यते ॥ २८ ॥
अतिवर्णाश्रमी जीवन्मुक्त आत्मरतिस्तथा ॥
एतस्य कृतकृत्यत्वाच्छास्त्रमस्मान्निवर्तते ॥ २९ ॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ३० ॥
इत्यादिश्रुतिमानेन कायेन मनसा गिरा ॥
सर्वावस्थासु भगवद्भक्तिरत्रोपयुज्यते ॥ ३१ ॥
पूर्वभूमौ कृता भक्तिरुत्तरां भूमिमानयेत् ॥
अन्यथा विघ्नबाहुल्यात्फलसिद्धिः सुदुर्लभा ॥ ३२ ॥
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ॥
अनेकजन्मसंसिद्ध इत्यादि च वचो हरेः ॥ ३३ ॥
यदि प्राग्भवसंस्कारस्याचिन्त्यत्वात्तु कश्चन ॥
प्रागेव कृतकृत्यः स्यादाकाशफलपातवत् ॥ ३४ ॥
न तं प्रति कृतार्थत्वाच्छास्त्रमारब्धुमिष्यते ॥
प्राक्सिद्धसाधनाभ्यासाद्दुर्ज्ञेया भगवत्कृपा ॥ ३९ ॥
एवं प्राग्भूमिसिद्धावप्युत्तरोत्तरभूमये ॥
विधेया भगवद्भक्तिस्तां विना सा न सिध्यति ॥ ३६ ॥
जीवन्मुक्तिदशायां तु न भक्तेः फलकल्पना ॥
अद्वैष्टृत्वादिवत्तेषां स्वभावो भजनं हरेः ॥ ३७ ॥
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ॥
कुर्वन्त्य हैतुकीं भक्तिमित्थंभूतगुणो हरिः ॥ ३८ ॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ॥
इत्यादिवचनात्प्रेमभक्तोऽयं मुख्य उच्यते ॥ ३९ ॥ .
एतत्सर्वं भगवता गीताशास्त्रे प्रकाशितम् ॥
अतो व्याख्यातुमेतन्मे मन उत्सहते भृशम् ॥ ४० ॥
निष्कामकर्मानुष्ठानं मूलं मोक्षस्य कीर्तितम् ॥
शोकादिरासुरः पाप्मा तस्य च प्रतिबन्धकः ॥ ४१ ॥