पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१८
[अ०१८क्ष्लो०७८]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


श्रीगोविन्दमुखारविन्दमधुना मिष्टं महाभारते
गीताख्यं परमं रहस्यमृषिणा व्यासेन विख्यापितम् ॥
व्याख्यातं भगवत्पदैः प्रतिपदं श्रीशंकराख्यैः पुनर्-
विस्पष्टं मधुसूदनेन मुनिना स्वज्ञानशुद्ध्यै कृतम् ॥ ३ ॥
इह योऽस्ति विमोहयन्मनः परमानन्दघनः सनातनः ।
गुणदोषभृदेष एव नस्तृणतुल्यो यदयं स्वयं जनः ॥ ४ ॥
श्रीरामविश्वेश्वरमाधवानां प्रसादमासाद्य मया गुरूणाम् ।
व्याख्यानमेतद्विहितं सुबोधं समर्पितं तच्चरणाम्बुजेषु ॥ ५ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधु.

सूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां संन्या-

सयोगप्रतिपादनं नामाष्टादशोऽध्यायः ॥ १८ ॥

(समाप्तेयं श्रीमधुसूदनसरस्वतीविरचिता श्रीमद्भगवद्गीतागूढार्थदीपिका टीका ।)

 श्री. टी०-अतस्त्वं स्वपुत्राणां राज्यादिशङ्कां परित्यजेत्याशयेनाऽऽह- यत्रेति । यत्र येषां पक्षे योगे[१]श्वरः श्रीकृष्णो वर्तते । यत्र च पार्थों गाण्डीवधनुर्धरः, तत्रैव श्री राज्यलक्ष्मीः, तत्रैव च विजयः, तत्रैव च भूतिरुत्तरोत्तराभिवृद्धिश्च, नीतिर्नयोऽपि तत्रैव ध्रुवा निश्चितेति सर्वत्र संबध्यते । इति मम मतिर्निश्चयः । अत इदानीमपि तावत्सपुत्रस्त्वं श्रीकृष्णं शरणमुपेत्य पाण्डवान्प्रसाद्य सर्वस्वं च तेभ्यो निवेद्य पुत्रप्राणरक्षणं कुर्विति भावः ॥ ७८ ॥

भगवद्भक्तियुक्तस्य तत्प्रसादात्मबोधतः ।
सुखं बन्धविमुक्तिः स्यादिति गीतार्थसंग्रहः ॥ १॥

तथाहि-" पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया
 भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन "

 इत्यादौ भगवद्भक्तमोक्षं प्रति साधकतमत्वश्रवणात्तदेकान्तभक्तिरेव तत्प्रसादोत्थज्ञानावान्तरव्यापारमात्रयुक्ता मोक्षहेतुरिति स्फुटं प्रतीयते । ज्ञानस्य च भक्त्यवान्तरव्यापारत्वमेव युक्तम् ।

" तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते"

इत्यादिवचनात् ।
 नच ज्ञानमेवं भक्तिरिति युक्तम् ।
 समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥


  1. ख. ग. घ. च. छ, ज. झ. योगमायेश्वरः ।