पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १८क्ष्लो०६८-६९]
५१३
श्रीमद्भगवद्गीता।


 श्री०टी०-एवं गीतार्थतत्त्वमुपदिश्य तत्संप्रदायप्रवर्तने नियममाह--इदमिति । इदं गीतातत्त्वं ते त्वयाऽतपस्काय स्वधर्मानुष्ठानहीनाय न वाच्यम् । न चाभक्ताय गुरावीश्वरे च भक्तिशून्याय कदाचिदपि न वाच्यम् । न चाशुश्रूषवे परिचर्यामकुर्वते श्रोतुमनिच्छते वा वाच्यम् । मां परमेश्वरं योऽभ्यसूयति मनुष्यदृश्या दोषारोपेण निन्दति तस्मै च न वाच्यम् ॥६७ ॥

 म०टी०-एवं संप्रदायस्य विधिमुक्त्वा तस्य कर्तुः फलमाह-

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ॥
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥६८॥

 यः संप्रदायस्य प्रवर्तक इममावयोः संवादरूपं ग्रन्थं परमं निरतिशयपुरुषार्थसाधनं गुह्यं रहस्यार्थत्वात्सर्वत्र प्रकाशयितुमनर्हं मद्भक्तेषु मां भगवन्तं वासुदेवं प्रत्यनुरक्तेषु अभिधास्यति अभितो ग्रन्थतोऽर्थतश्च धास्यति स्थापयिष्यति । भक्तेः पुनर्ग्रहणात्पूर्वोक्तविशेषणत्रयरहितस्यापि भगवद्भक्तिमात्रेण पात्रता सूचिता भवति । कथमभिधास्यति तत्राऽऽह-~~भक्तिं मयि परां कृत्वा भगवतः परमगुरोः शुश्रूषैवेयं मया क्रियत इत्येवं कृत्वा निश्चित्य योऽभिधास्यति स मामेवैष्यति मां भगवन्तं वासुदेवमेष्यत्येवाचिरान्मोक्ष्यत एव संसारादत्र संशयो न कर्तव्यः । अथवा मयि परां भक्तिं कृत्वाऽसंशयो निःसंशयः सन्मामेष्यत्येवेति वा मामेवैष्यति नान्यमिति यथाश्रुतमेव वा योज्यम् ॥१८॥

 श्री०टी०-एतैर्दोषैर्विरहितेभ्यो[१] मद्भक्तेभ्यो गीताशास्त्रोपदेष्टुः फलमाह- इति । मद्भक्तेषु मद्भक्तेभ्यो यो वक्ष्यति स मयि परां भक्तिं करोति ततो निःसंशयः सन्मामेव प्राप्नो[२]तीत्यर्थः ॥ १८॥

 म०टी०-किं च-

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ॥
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ ६९ ॥

 तस्मान्मद्भक्तेषु शास्त्रसंप्रदायकृतः सकाशादन्यो मनुष्येषु मध्ये कश्चिदपि मे मम प्रियकृत्तमोऽतिशयेन प्रियकृन्मद्विषयप्रीत्यतिशयवान्नास्ति वर्तमाने काले । नापि प्रागातीत्ताद्कश्चित् । न च कालान्तरे भविता भविष्यति । ममापि तस्मादन्यः प्रियतरः प्रीत्यतिशयविषयः कश्चिदप्यासीन्न । अधुना च भुवि लोकेऽस्मिन्नास्ति । न च कालान्तरे भवितेत्यावृत्त्या योज्यम् ॥१९॥


  1. क. घ. ङ. ज. "भ्यो गी ।
  2. ख. ग. घ. इ. च. छ. ज. स. "नोति ॥६८॥