पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो ०६६]
५११
श्रीमद्भगवद्गीता।


क्षूणां साधारण्येन विधीयते । तत्र सर्वधर्मान्परित्यज्येति तेषां स्वधर्मादरसंभवेन तन्निवारणार्थम् । अधर्मे चानर्थफले कस्याप्यादराभावात्तत्परित्यागवचनमनर्थकमेव, शास्त्रान्तरप्राप्तत्वाच्च । तस्माद्वर्णाश्रमधर्माणामभ्युदयहेतुत्वप्रसिद्धेमोक्षहेतुत्वमपि स्यादितिशङ्कानिराकरणार्थमेवैतद्वच इति न्याय्यम् । नच सर्वधर्माधर्मपरित्यागोऽत्र विधीयते संन्यासशास्त्रेण प्रतिषेधशास्त्रेण च लब्धत्वादेव । न चेदमपि संन्यासशास्त्रं भगवदेकशरणताया विधित्सितत्वात् । तस्मात्सर्वधर्मान्परित्यज्येत्यनुवाद एव । सर्वेषां तु शास्त्राणां परमं रहस्यमीश्वरशरणतैवेति तत्रैव शास्त्रपरिसमाप्तिर्भगवता कृता । तामन्तरेण संन्यासस्यापि स्वफलापर्यवसायित्वात् । अर्जुनं च क्षत्रियं संन्यासानधिकारिणं प्रति संन्यासोपदेशायोगात् । अर्जुनव्याजेनान्यस्योपदेशे तु वक्ष्यामि ते हितं त्वा मोक्षयिष्यामि सर्वपापेभ्यस्त्वं मा शुच इति चोपक्रमोपसंहारौ न स्याताम् । तस्मात्संन्यासधर्मेष्वप्यनादरेण भगवदेकशरणतामात्रे तात्पर्यं भगवतः । यस्मात्त्वं मदेकशरणः सर्वधर्मानादरेणातोऽहं सर्वधर्मकार्यकारी त्वा त्वां सर्वपापेभ्यो बन्धुवधादिनिमित्तेभ्यः संसारहेतुभ्यो मोक्षयिष्यामि प्रायश्चित्तं विनैव " धर्मेण पापमपनुदति " इति श्रुतेधर्मस्थानीयत्वाच्च मम । अतो मा शुचो युद्धे प्रवृत्तस्य मम बन्धुवधादिनिमित्तप्रत्यवायात्कथं निस्तारः स्यादिति शोकं मा कार्षीः । भाष्यकारनिरस्तानि दुर्मतानीह विस्तरात् ।

ग्रन्थव्याख्यानमात्रार्थी न तदर्थमहं यते ॥
तस्यैवाहं ममैवासौ स एवाहमिति त्रिधा ।
भगवच्छरणत्वं स्यात्साधनाभ्यासपाकतः ॥
विशेषो वर्णितोऽस्माभिः सा भक्तिरसायने ।
ग्रन्थविस्तरभिरुत्वादिङ्मात्रमिह कथ्यते ॥

 तत्राऽऽयं मृदु यथा-

"सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम् ।
सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥

 द्वितीयं मध्यं यथा-

" हस्तमुक्षिप्य यातोऽसि बलात्कृष्ण किमद्भुतम् ।
हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥"

 तृतीयमधिमात्रं यथा-

" सकलमिदमहं च वासुदेवः परमपुमान्परमेश्वरः स एकः ।
इति मतिरचला भवत्यनन्ते हृदयगते व्रज तान्विहाय दूरात्" ॥

 इति दूतं प्रति यमवचनम् । अम्बरीषप्रह्रलादगोपीप्रभृतयश्चास्यां भूमिकायामुदाह. -