पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०६
[अ०१८क्ष्लो०५८-६०]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


मञ्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ॥
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनश्यसि ॥ ५८ ॥

 मच्चित्तस्त्वं सर्वदुर्गाणि दुस्तराणि कामक्रोधादीनि संसारदुःखसाधनानि मत्प्रसादात्स्वव्यापारमन्तरेणैव तरिष्यसि अनायासेनैवातिक्रमिप्यसि । अथ चेद्यदि तु त्वं मदुक्ते विश्वासमकृत्वाऽहंकारात्पण्डितोऽहमिति गर्वान्न श्रोष्यसि मद्वचनार्थं न करिष्यसि ततो विनक्ष्यसि पुरुषार्थाद्भ्रष्टो भविष्यसि कामकारेण संन्यासाद्याचर[१]न् ॥५८॥

 श्री०टी०-[२]तो यद्भविष्यति तच्छृणु-मच्चित्त इति । मच्चित्तः सन्मत्प्रसादात्सर्वाण्यपि दुर्गाणि दुस्तराणि सांसारिकाणि दुःखानि तरिष्यसि । विपक्षे दोषमाह- अथ चेद्यदि पुनस्त्वमहंकाराज्ज्ञातृत्वाभिमानान्मदुक्तमेतन्न श्रोष्यसि तर्हि विनश्यसि पुरुषार्थाद्भश्यसि ॥ १८ ॥

 म०टी०-त्वं च-

यदहंकारमाश्रित्य न योत्स्य इति मन्यसे ॥
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥५९॥

 अहंकारं धार्मिकोऽहं क्रूरं कर्मं न करिष्यामीति मिथ्याभिमानमाश्रित्य न योत्स्ये युद्धं न करिष्यामीति मन्यसे यन्मिथ्या निष्फल एष व्यवसायो निश्चयस्ते तव यस्मात्प्रकृतिः क्षत्रजात्यारम्मको रजोगुणस्वभावस्त्वां नियोक्ष्यति प्रेरयिष्यति युद्धे ॥ १९ ॥

 श्री० टी०-कामं विनक्ष्यामि नतु बन्धुभिर्युद्धं करिष्यामीति चेत्तत्राऽऽह- यदिति । मदुक्तमनादृत्य केवलमहंकारमवलम्ब्य युद्धं न करिष्यामीति त्वं यन्मन्यसेऽध्यवस्यसि एष [३]तेऽध्यवसायो मिथ्येवास्वतन्त्रत्वात्तव । तदेवाऽऽह-प्रकृतिस्त्वां रजोगुणरूपेण परिणता सती नियोक्ष्यति युद्धे प्रवर्तयिप्यत्येव ॥ ५९ ॥

 म० टी०-प्रकृतिं विवृणोति-

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ॥
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्॥६०॥

 स्वभावजेन पूर्वोक्तक्षत्रियस्वभावजेन शौर्यादिना स्वेनानागन्तुकेन कर्मणा निवद्धो वशीकृतस्त्वं हे कौन्तेय यद्बन्धुवधादिनिमित्तं युद्धं मोहात्स्वतन्त्रोऽहं यथेच्छामि तथा संपादयिष्यामीति भ्रमात्कर्तुं नेच्छसि तदवशोऽपि अनिच्छन्नपि स्वाभाविककर्मपरतत्रः परमेश्वरपरतत्रश्च करिष्यस्येव ॥ ६० ॥


  1. ग. ङ. 'रणात् ॥ ५८ ॥ किं च ।
  2. ख. घ. च. ज. झ. अतो ।
  3. क. ते व्यव।