पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९८
[अ०१८क्ष्लो०४७]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


तथा च श्रुतिः-" यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति [ इति । अत्र यत इति प्रकृतौ पञ्चमी । यतो येनेति चैकत्वं विवक्षितम् । “ आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते । " इति च तस्य निर्णयवाक्यम् । " मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ” इत्यादिश्रुत्यन्तराञ्च मायोपाधिलाभः । यः सर्वज्ञः सर्ववित् " इत्यादिश्रुत्यन्तरात्सर्वज्ञत्वादिलाभः । एवं च श्रौत एवायमर्थो भगवता प्रकाशितः--यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततमिति । तमन्तर्यामिणं भगवन्तं स्वकर्मणा प्रतिवर्णाश्र[१]मं विहितेनाभ्यर्च्य तोषयित्वा तत्प्रसादादैकात्म्यज्ञाननिष्ठायोग्यतालक्षणां सिद्धिमन्तःकरणशुद्धिं विन्दति मानवः । देवादिस्तूपासनामात्रेणेति भावः ॥ ४६॥

 श्री०टी०-तमेवाऽऽह-यत इति । यतोऽन्तर्यामिणः परमेश्वराभूतानां प्राणिनां प्रवृत्तिश्चेष्टा भवति । येन च कारणात्मना सर्वमिदं विश्वं ततं व्याप्तं तमीश्वरं स्वकर्मणाऽभ्यर्च्य पूजयित्वा सिद्धिं लभते मनुष्यः ॥ ४६ ॥

 म०टी०-यतः स्वधर्म एव मनुष्याणां भगवत्प्रसादहेतुरतः-

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ॥
स्वभावनियतं कर्म कुर्वन्नाऽऽप्नोति किल्बिषम् ॥४७॥

 परधर्मात्सम्यगनुष्ठितादपि श्रेयान्प्रशस्यतरः स्वधर्मो विगुणोऽसम्यगनुष्ठितोऽपि । तस्मात्क्षत्रियेण सता त्वया स्वधर्मो युद्धादिरेवानुष्टेयो न परधर्मो भिक्षाटनादिरित्यभिप्रायः । ननु स्वधर्मोऽपि युद्धादिर्बन्धुवधादिप्रत्यवायहेतुत्वान्नानुष्ठेय इति नेत्याह-स्वभावनियतं पूर्वोक्तं शौर्यं तेज इत्यादि स्वभावजं युद्धादि कर्म कुर्वन्किल्विषं पापं बन्धुवधादिनिमित्तं न प्राप्नोति । तथा च प्राग्व्याख्यातं "सुखदुःखे समे कृत्वा" इत्यत्र । विहितज्योतिष्टोमाङ्गपशुहिंसाया इव विहितयुद्धाङ्गबन्धुहिंसाया अपि प्रत्यवायहेतुत्वाभावात् । तथा चोक्तमधस्तात् ॥ ४७ ॥

 श्री०टी०-स्वकर्मणेति विशेषणस्य फलमाह-श्रेयानिति । विगुणोऽपि स्वधर्मः सम्यगनुष्ठितादपि परधर्माच्छ्रेयाश्रेष्ठः । नच बन्धुवधादियुक्तायुद्धादेः स्वधर्मााभिक्षाटनादिपरधर्मः श्रेष्ठ इति मन्तव्यम् । यतः स्वभावेन पूर्वोक्तेन नियतं नियमेनोक्तं कर्म कुर्वन्किल्विषं नाऽऽप्नोति ॥ ४७ ॥

 म० टी०-यस्मादेवं विहितहिंसादेर्न प्रत्यवायहेतुत्वं परधर्मश्च भयावहः सामान्यदोषेण च सर्वकर्माणि दुष्टानि तस्मादज्ञो वर्णाश्रमाभिमानी-


  1. ख. ग. च. झ. 'श्रमवि।