पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-[उपोद्घातः ]


प्रत्यध्यायं विशेषस्तु तत्र तत्रैव वक्ष्यते ॥
मुक्तिसाधनपदं शास्त्रार्थत्वेन कथ्यते ॥ ११ ॥
निष्कामकर्मानुष्ठानं त्यागात्काम्यनिषिद्धयोः ॥
तत्रापि परमो धर्मों जपस्तुत्यादिकं हरेः ॥ १२ ॥
क्षीणपापस्य चित्तस्य विवेके योग्यता यदा ॥
नित्यानित्यविवेकस्तु जायते सुदृढस्तदा ॥ १३ ॥
इहामुत्रार्थवैराग्यं वशीकाराभिधं कमात् ॥
ततः शमादिसंपत्त्या संन्यासो निष्ठितो भवेत् ॥ १४ ॥
एवं सर्वपरित्यागान्मुमुक्षा जायते दृढा ॥
ततो गुरूपसदनमुपदेशग्रहस्ततः ॥ १५ ॥
ततः संदेहहानाय वेदान्तश्रवणादिकम् ॥
सर्वमुत्तरमीमांसाशास्त्रमत्रोपयुज्यते ॥ १६ ॥
ततस्तत्परिपाकेण निदिध्यासननिष्ठता ॥
योगशास्त्रं तु संपूर्णमुपक्षीणं भवेदिह ॥ १७ ॥
क्षीणदोषे ततश्चित्ते वाक्यात्त[१]त्त्वमतिर्भवेत् ॥
साक्षात्कारो निर्विकल्पः शब्दादेवोपजायते ॥ १८ ॥
अविद्याविनिवृत्तिस्तु तत्त्वज्ञानोदये भवेत् ॥
तत आवरणे क्षीणे क्षीयते भ्रमसंशयौ ॥ १९ ॥
अनारब्धानि कर्माणि नश्यन्त्येव समन्ततः ॥
[२] चाऽऽगामीनि जायन्ते तत्त्वज्ञानप्रभावतः ॥ २० ॥
प्रारब्धकर्मविक्षेपाद्वासना तु न नश्यति ॥
सा सर्वतो बलवता संयमेनोपशाम्यति ॥ २१ ॥
संयमो धारणा ध्यानं समाधिरिति यञ्चिकम् ॥
यमादिपञ्चकं पूर्वं तदर्थमुपयुज्यते ॥ २२ ॥
ईश्वरप्रणिधानात्तु समाधिः सिध्यति द्रुतम् ॥
ततो भवेन्मनोनाशो वासनाक्षय एव च ॥ २३ ॥
तत्त्वज्ञानं मनोनाशो वासनाक्षय इत्यपि ॥
युगपत्रितयाभ्यासाज्जीवन्मुक्तिदृढा भवेत् ॥ २४ ॥
विद्वत्संन्यासकथनमेतदर्थं श्रुतौ कृतम् ॥
प्रागसिद्धो य एवांशो यत्नः स्यात्तस्य साधने ॥ २५ ॥


  1. ख. च, छ. झ. 'स्वमिति ।
  2. क. छ. न त्यागा।