पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९४
[अ०१८क्ष्लो ०४३-४४]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


धारणं सर्वविद्यानां विज्ञानमिति कीर्यते
विनयं द्विविधं प्राहुः शश्वद्दमशमाविति ॥ " [इति ] |

 शेष व्याख्यातप्रायमिति वचनानि न लिखितानि । याज्ञवल्क्यः-

“ इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद्योगेनाऽऽत्मदर्शनम् ॥” इति ॥

 इयं च सर्वा दैवी संपत्प्राग्व्याख्याता ब्राह्मणस्य स्वाभाविकीतरेषां नैमित्तिकीति न विरोधः ॥ ४२॥

 श्री०टी०-तत्र ब्राह्मणस्य स्वाभाविकानि कर्माण्याह-शम इति । शमश्चितोपरमः । दमो बाह्येन्द्रियोपरमः । तपः पूर्वोक्तं शारीरादि । शौचं बाह्याभ्यन्तरम् । क्षान्तिः क्षमा । आर्जवमवक्रता । ज्ञानं शास्त्रीयम् । विज्ञानमनुभवः । आस्तिक्यमस्ति परलोक इति निश्चयः । एतच्छमादि ब्राह्मणस्य स्वभावाज्जातं कर्म ॥ ४२ ॥

 म० टी०-क्षत्रियस्य गुणस्वभावकृतानि कर्माण्याह-

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ॥
दानमीश्वरभावश्च +क्षत्रकर्म स्वभावजम् ॥ ४३ ॥

 शौर्यं विक्रमो बलवत्तरानपि प्रहर्तुं प्रवृत्तिः । तेजः प्रागल्भ्यं परधर्षणीयत्वम् । धृतिर्महत्यामपि विपदि देहेन्द्रियसंघातस्यानवसादः । दाक्ष्यं दक्षमावः सहसा प्रत्युत्पन्नेषु कार्येष्वव्यामोहेन प्रवृत्तिः । युद्धे चाप्यपलायनमपराङ्मुखीभावः । दानमसंकोचेन वित्तेषु स्वस्वत्वपरित्यागेन परस्वत्वापादनम् । ईश्वरभावः प्रजापालनार्थमीशितव्येषु प्रभुशक्तिप्रकटीकरणं च । क्षत्रकर्म क्षत्रियजातेर्विहितं कर्म स्वभावजं सत्त्वोपसर्जनरजोगुणस्वभावजम् ॥ ४३ ॥

 श्री० टी०-क्षत्रियस्य स्वाभाविकानि कर्माण्याह-शौर्यमिति । शौर्य पराक्रमः । तेजः प्रागल्भ्यम् । धृतिधैर्यम् । दाक्ष्यं कौशलम् । युद्धे चाप्यपलायनमपराङ्मुखता । दानमौदार्यम् । ईश्वरभावो नियमनशक्तिः । एतत्क्षत्रियस्य स्वभाव कर्म ॥४३॥

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ॥
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥

 म०टी०-कृषिरन्नोत्पत्त्यर्थं भूमेर्विलेखनम् । गोरक्षस्य भावो गौरक्ष्यं पाशु- पाल्यम् । वाणिज्यं वणिजः कर्म क्रयविक्रयादिलक्षणं, कुसीदमप्यत्रान्तर्गमनीयम् ।


+ श्रीधरटीकामूले “क्षा कर्म " इति पाठः ।