पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो०४२]
४९३
श्रीमद्भगवद्गीता।


न गुणान्गुणिनो हन्ति स्तौति मन्दगुणानपि ।
नान्यदोषेषु रमते साऽनसूया प्रकीर्तिता ॥
अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिर्गुणैः ।
स्वधर्मे च व्यवस्थानं शौचमेतत्प्रकीर्तितम् ॥
शरीरं पीड्यते येन सुशुभेनापि कर्मणा ।
अत्यन्तं तन्न कर्तव्यमनायासः स उच्यते ॥
प्रशस्ताचरणं नित्यमप्रशस्तविसर्जनम् ।
एतद्धि मङ्गलं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः ॥
स्तोकादपि प्रदातव्यमदीनेनान्तरात्मना ।
अहन्यहनि यत्किंचिदकार्पण्यं हि तत्स्मृतम् ।।
यथोत्पन्नेन संतोषः कर्तव्यो ह्यर्थवस्तुना ।
परस्याचिन्तयित्वाऽर्थ साऽस्पृहा परिकीर्तिता ॥" [इति ] ।

 एत एवाष्टावात्मगुणत्वेन गौतमेन पठिताः ॥ अथाष्टावात्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पण्यमस्पृहा " इति । तथा महामारते-

" सत्यं दमस्तपः शौचं संतोषो हीः क्षमाऽऽर्जवम् ।
ज्ञानं शमो दया ध्यानमेष धर्मः सनातनः ।।
सत्यं भूतहितं प्रोक्तं मनसो दमनं दमः ।
तपः स्वधर्मवर्तित्वं शौच संकरवर्जनम् ॥
संतोषो विषयत्यागो हीरकार्यनिवर्तनम् ।
क्षमा द्वंद्वसहिष्णुत्वमार्जवं समचित्तता ॥
ज्ञानं तत्त्वार्थसंबोधः शमश्चित्तप्रशान्तता।
दया भूतहितैषित्वं ध्यानं निर्विषयं मनः ॥"[इति ] ।

 देवलः-

"शौचं दानं तपः श्रद्धा गुरुसेवा क्षमा दया ।
विज्ञानं विनयः सत्यमिति धर्मसमुच्चयः ॥" [इति ] ।

 तथा-

" व्रतोपवासनियमैः शरीरोत्तापनं तपः ।
प्रत्ययो धर्मकार्येषु तथा श्रद्धेत्युदाहृता ॥
नास्ति ह्यश्रद्दधानस्य कर्मकृत्यप्रयोजनम् ।
यत्पुनर्वैदिकीनां च लौकिकीनां च सर्वशः ॥