पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९२
[अ०१८क्ष्लो०४२]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


शूद्राणां समासात्पृथक्करणं द्विजत्वाभावेन वैलक्षण्यात् । विभागोपलक्षणमाह-स्वभावः सात्त्विकादिः प्रभवति प्रादुर्भवति येभ्यस्तैर्गुणैरुपलक्षणभूतैः । यद्वा स्वभावः पूर्वजन्मसंस्कारस्तस्मात्प्रादुर्भूतैरित्यर्थः । तत्र सत्त्वप्रधाना ब्राह्मणाः । सत्त्वोपसर्जनरज:- प्रधानाः क्षत्रियाः । तमउपसर्जनरजःप्रधाना वैश्याः । रजउपसर्जनतमःप्रधानाः शूद्राः ॥ ४१॥

 म०टी०-तत्र ब्राह्मणस्य स्वाभाविकगुणकृतानि कर्माण्याह-

शमो दमस्तपः शोचं शान्तिरार्जवमेव च ॥
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥४२॥

 शमोऽन्तःकरणोपरमः । दमो बाह्यकरणोपरमः प्रागुक्तः । तपः शारीरादि देवद्विजगुरुप्राज्ञेत्यादावुक्तम् । शौचमपि बाह्याभ्यन्तरभेदेन प्रागुक्तम् । क्षान्तिः क्षमाऽऽक्रुष्टस्य ताडितस्य वा मनसि विकारराहित्यं प्राग्व्याख्यातम् । आर्जवमकौटिल्यं प्रागुक्तम् । ज्ञानं साङ्गवेदतदर्थविषयम् । विज्ञानं कर्मकाण्डे यज्ञादिकर्मकौशल्यं ब्रह्मकाण्डे ब्रह्मात्मैक्यानुभवः । आस्तिक्यं सात्त्विकी श्रद्धा प्रागुक्ता । एतच्छमादिनवकं स्वभावजं सत्त्वगुणस्वभावकृतं ब्रह्मकर्म ब्राह्मणजातेः कर्म । यद्यपि चतुर्णामपि वर्णानां सात्त्विकावस्थायामेते धर्माः संभवन्ति तथाऽपि बाहुल्येन ब्राह्मणे भवन्ति सत्वस्वभावत्वात्तस्य । सत्त्वोद्रेकवशेनं त्वन्यत्रापि कदाचिद्भवन्तीति शास्त्रान्तरे साधारणधर्मतयोक्ताः । तथा च विष्णु:-

"क्षमा सत्यं दमः शौचं दानमिन्द्रियसंयमः ।
अहिंसा गुरुशुश्रूषा[१] तीर्थानुसरणं दया ॥
आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् ।
अनभ्यसूया च तथा धर्मः सामान्य उच्यते ॥" [इति ] ।

 सामान्यश्चतुर्णामपि वर्णानां तथा प्रायेण चतुर्णामप्याश्रमाणामित्यर्थः । तथा बृहस्पतिः-

"दया क्षमाऽनसूया च शौचानायासमङ्गलम् ।
अकार्पण्यमस्पृहत्वं सर्वसाधारणानि च ॥
परे वा बन्धुवर्गे वा मित्रे द्वेष्टरि वा सदा ।
आपन्ने रक्षितव्यं तु दयैषा परिकीर्तिता ॥
बाह्ये चाऽऽध्यात्मिके चैव दुःखे चोत्पादिते क्वचित् ।
न कुप्यति न वा हन्ति सा क्षमा परिकीर्तिता ॥


  1. ज. "षा शास्त्रानु।