पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो०३६-४०]
४८९
श्रीमद्भगवद्गीता।


विषयेन्द्रियसंयोगाद्यत्तद्ग्रेऽमृतोपमम् ॥
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ ३८ ॥

 म०टी०-विषयाणामिन्द्रियाणां च संयोगाज्जातं न त्वात्मबुद्धिप्रसादाद्यत्तद्यदतिप्रसिद्धं स्रक्चन्दनवनितासङ्गादिसुखमग्रे प्रथमारम्भे मनःसंयमादिक्लेशाभावादमृतोपमं परिणामे त्वैहिकपारत्रिकदुःखावहत्वाद्विषमिव तत्सुखं राजसं स्मृतम् ॥ ३८ ॥

 श्री० टी०-राजसं सुखमाह-विषयेन्द्रियेति । विषयाणामिन्द्रियाणां च संयोगाद्यत्तत्प्रसिद्ध स्त्रीसङ्गादिसुखममृतमुपमा यस्य तादृशं भवत्यो प्रथमं परिणामे तु विषतुल्यमिहामुत्र च दुःखहेतुत्वात्तत्सुखं राजसं स्मृतम् ॥ ३८ ॥

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ॥
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥

 म. टी.-अग्रे प्रथमारम्भे चानुबन्धे परिणामे च यत्सुखमात्मनो मोहकरं, निद्रालस्ये प्रसिद्धे, प्रमादः कर्तव्यार्थावधानमन्तरेण मनोराज्यमानं, तेभ्य एवोत्तिष्ठति नतु सात्त्विकमिव बुद्धिप्रसादजं न वा राजसमिव विषयेन्द्रियसंयोगजं, तन्निद्रालस्यप्रमादोत्थं तामसं सुखमुदाहृतम् ॥ ३९ ॥

 श्री० टी०-तामसं सुखमाह-यदिति । अग्रे प्रथमक्षणेऽनुबन्धे च पश्चादपि यत्सुखमात्मनो मोहकरम् , तदेवाऽऽह निद्रा चाऽऽलस्यं च प्रमादश्च कर्तव्यार्थावधानराहित्येन मनोराज्यमेतेभ्य उत्तिष्ठति यत्सुखं तत्तामसमुदाहृतम् ॥ ३९ ॥

 म० टी०-इदानीमनुक्तमपि संगृह्णन्प्रकरणार्थमुपसंहरति भगवान् -

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ॥
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्रिभिर्गुणैः ॥ ४० ॥

 सत्त्वरजस्तमसां साम्यावस्था प्रकृतिस्ततो जातैर्वैषम्यावस्थां प्राप्तैः प्रकृतिजैर्नतु साक्षाद्गुणानां प्रकृतिजत्वमस्ति तदूपत्वात् । तस्माद्वैषम्यावस्थैव तदुत्पत्तिरुपचारात् । अथवा प्रकृतिर्माया तत्प्रभवैस्तत्कल्पितैः प्रकृतिजैरेभिस्त्रिभिर्गुणैर्बन्धनहेतुभिः सत्त्वादिभिर्मुक्तं हीनं सत्त्वं प्राणिजातमप्राणि वा यत्स्यात्तत्पुनः पृथिव्यां मनुष्यादिषु दिवि देवेषु वा नास्ति क्वापि गुणत्रयरहितमनात्मवस्तु नास्तीत्यर्थः ॥ ४० ॥

 श्री० टी०- अनुक्तमपि संगृह्णन्प्रकरणार्थमुपसंहरति-नैतदस्तीति । एभिः प्रकृतिसंभवैः सत्त्वादिभिस्त्रिभिर्गुणैर्मुक्तं हीनं सत्त्वं प्राणिजातमन्यद्वा यत्स्यात्तत्पृथिव्यां मनुष्यलोकादिषु दिवि देवेषु च क्वापि नास्तीत्यर्थः ॥ ४० ॥

 म० टी०-तदेवं सत्त्वरजस्तमोगुणात्मकः क्रियाकारकफललक्षणः सर्वः संसारो