पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४८
[अ०१८ क्ष्लो०३६-३७]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।

 मे मम वचनाच्छृणु हेयादेयविवेकार्थं व्यासङ्गान्तरनिवारणेन मनः स्थिरी कुरु, हे भरतर्षमेति योग्यता दर्शिता ।

 श्री० टी०- सुखस्य त्रैविध्यं प्रतिजानीतेऽर्धन-सुखमिति । स्पष्टार्थः ।

 म० टी०-सात्त्विकं सुखमाह सार्धेन-

अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ ३६ ॥

 यत्र समाधिसुखेऽभ्यासादतिपरिचयाद्रमते परितृप्तो भवति न तु विषयसुख इव सद्य एव । यस्मिन्रममाणश्च दुःखस्य सर्वस्याप्यन्तमवसानं नितरां गच्छति न तु विषयसुख इवान्ते महदुःखम् ॥ ३६ ॥

 श्री० टी०-तत्र सात्त्विकं सुखमाह-अभ्यासादिति सार्धेन । यत्र यस्मिन्सुखेऽभ्यासादतिपरिचयाद्रमते न तु विषयसुख इव सहसा रतिं प्राप्नोति । यस्मिन्रममाणश्च दुःखस्यान्तमवसानं नितरां गच्छति प्राप्नोति ॥ ३६ ॥

 म०टी०-तदेव विवृणोति-

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ॥
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ ३७ ॥

 यदग्रे ज्ञानवैराग्यध्यानसमाध्यारम्भेऽत्यन्तायासनिर्वाह्यत्वाद्विषमिव द्वेषविशेषावहं भवति । परिणामे ज्ञानवैराग्यादिपरिपाके त्वमृतोपमं प्रीत्यतिशयास्पदं भवति । आत्मविषया बुद्धिरात्मबुद्धिस्तस्याः प्रसादो निद्रालस्यादिराहित्येन स्व[१]च्छतयाऽवस्थानं ततो जातमात्मबुद्धिप्रसादजं नतु राजसमिव विषयेन्द्रियसंयोगजं न वा तामसमिव निद्रालस्यादिजम् । ईदृशं यदनात्मबुद्धिनिवृत्त्याऽऽत्मबुद्धिप्रसादजं समाधिसुखं त[२] त्सात्त्विकं प्रोक्तं योगिभिः । अपर आह-अभ्यासादावृत्तेर्यत्र रमते प्रीयते यत्र च दुःखावसानं प्राप्नोति तत्सुखं, तच्च त्रिविधं गुणभेदेन शृण्विति तत्पदाध्याहारेण पू[३]र्वस्य क्ष्लोकस्या'न्वयः । यत्तदग्र इत्यादिश्लोकेन तु सात्त्विकसुखलक्षणमिति । भाष्यकाराभिप्रायोड- प्येवम् ॥ ३७॥

 श्री०टी०-कीदृशं तत्-यत्तदिति । यत्तत्किमपि अग्रे प्रथमं विषमिव मनः संयमाधीनत्वादुःखावहमिव भवति । परिणामे त्वमृतसदृशम् । आत्मविषया बुद्धिरात्मबुद्धिस्तस्याः प्रसादो रजस्तमोमलत्यागेन स्वच्छतयाऽवस्थानं ततो जातं यत्सुखं तत्सात्त्विकं प्रोक्तं योगिभिः ॥ ३७ ॥


  1. ङ. अ. स्वस्थत ।
  2. ग. घ. अ. तत्सुखं सात्त्वि' ।
  3. क. ख. ग. ङ, ज. म. पूर्णस्य ।