पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १८क्ष्लो०३३-३५]
४८७
श्रीमद्भगवद्गीता।


 म० टी०- इदानीं धृतैस्त्रैविध्यमाह त्रिभिः-

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ॥
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥३३॥

 योगेन समाधिनाऽव्यभिचारिण्याऽविनाभूतया समाधिव्याप्तया यया धृत्या प्रयत्येन मनसः प्राणस्येन्द्रियाणां च क्रियाश्चेष्टा धारयत उच्छास्त्रप्रवृत्तेर्नरिरुणद्धि, यस्यां सत्यामवश्यं समाधिर्भवति, यया च धार्यमाणा मनआदिक्रियाः शास्त्रमतिक्रम्य नार्थान्तरमवगाहन्ते धृतिः सा पार्थ सात्त्विकी ॥ ३३ ॥

 श्री० टी०--इदानीं धृतेस्त्रैविध्यमाह-धृत्येति त्रिभिः । योगेन चित्तैकाग्र्येण हेतुनाऽव्यभिचारिण्या विषयान्तर[१]मधारयन्त्या यया धृत्या मनसः प्राणस्येन्द्रियाणां च क्रिया धारयते नियच्छति सा धृतिः सात्त्विकी ॥ ३३ ॥

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ॥
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी॥३४॥

 म. टी.-तुः सात्त्विक्या भिनत्ति । प्रसङ्गेन कर्तृत्वाद्यभिनिवेशेन फलाकाङ्क्षी सन्यया धृत्या धर्म काममर्थं च धारयते नित्यं कर्तव्यतयाऽवधारयति न तु मोक्षं कदाचिदपि धृतिः सा पार्थ राजसी ॥ ३४ ॥

 श्री०टी०-राजसी धृतिमाह-यया विति । यया तु धृत्या [२]धर्मार्थकामाप्राधान्येन धारयते न विमुञ्चति तत्प्रसङ्गेन फलाकाङ्क्षी च भवति सा राजसी धृतिः ॥ ३४ ॥

यया स्वप्नं भयं शोकं विषादं मदमेव च ॥
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥३५॥

 म०टी०-स्वप्नं निद्रां भयं त्रासं शोकमिष्टवियोगनिमित्तं संतापं विषादमिन्द्रियावसादं मदमशास्त्रीयविषयसेवोन्मुखत्वं च यया न विमुञ्चत्येव किंतु सदैव कर्तव्यतया मन्यते दुर्मेधा विवेकासमर्थो धृतिः सा पार्थ तामसी ॥ ३५ ॥

 श्री. टी-तामसी धृतिमाह-ययेति । दुष्टाऽविवेकबहुला मेधा यस्य स दुर्मेधाः पुरुषो यया धृत्या स्वप्नादीन्न विमुञ्चति पुनः पुनरावर्तयति, स्वप्नोऽत्र निद्रा, सा धृतिस्तामसी ॥ ३५॥

 म०टी०एवं क्रियाणां कारकाणां च गुणतस्वैविध्यमुक्त्वा तत्फलस्य सुखस्य त्रैविध्यं प्रतिजानीते श्लोकार्धन-


  1. ग. घ. च. मनाराधय ।
  2. झ. धर्मकामार्थान्त्रा।