पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८६
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 प्रवृत्तिं कर्ममार्गं, निवृत्तिं संन्यासमार्गं, कार्य प्रवृत्तिमार्गे कर्मणां करणम् , अकार्यं निवृत्तिमार्गे कर्मणामकरणं, भयं प्रवृत्तिमार्गे गर्भवासादिदुःखम् , अभयं निवृत्तिमार्गे तदभावं, बन्धं प्रवृत्तिमार्गे मिथ्याज्ञानकृतं कर्तृत्वाद्यभिमानं, मोक्षं निवृत्तिमार्गे तत्त्वज्ञानकृतमज्ञानतत्कार्याभावं च या वेत्ति करणे कर्तृत्वोपचाराद्यया वेत्ति कर्ता बुद्धिः सा प्रमाणजनितनिश्चयवती हे पार्थ सात्त्विकी । बन्धमोक्षयोरन्ते कीर्तनात्तद्विषयमेव प्रवृत्त्यादि व्याख्यातम् ॥ ३० ॥

 श्री०टी०-तत्र बुद्धेस्वैविध्यमाह-प्रवृत्तिं चेति त्रिभिः । प्रवृत्तिं च धर्मे निवृत्तिं चाधर्मे यस्मिन्देशे काले च यत्कार्यमकार्यं च भयामये कार्याकार्यनिमित्तावर्थानर्थौ कथं बन्धः कथं वा मोक्ष इति या बुद्धिरन्तःकरणं वेत्ति सा सात्त्विकी । यया पुमान्वेत्तीति वक्तव्ये करणे कर्तृत्वोपचारः काष्ठानि पचन्तीतिवत् ॥ ३० ॥

यया धर्ममधर्म च कार्य चाकार्यमेव च ॥
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ ३१ ॥

 म० टी०-धर्मं शास्त्रविहितमधर्मं शास्त्रप्रतिषिद्धमदृष्टार्थमुभयं कार्यं चाकार्यं च दृष्टार्थमुभयमयथावदेव प्रजानाति यथावन्न जानाति किंस्विदिद[१]मिदमित्थं न वेति चानध्यवसायं संशयं वा भजते यया बुद्ध्या सा राजसी बुद्धिः । अत्र तृतीयानिर्देशादन्यत्रापि करणत्वं व्याख्येयम् ॥ ३१ ॥

 श्री० टी०- राजसी बुद्धिमाह-ययेति । अयथावत्संदेहास्पदत्वेनेत्यर्थः स्पष्टमन्यत् ॥ ३१ ॥

अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता ॥
सर्वार्थाविपरीतांश्च बुद्धिः सा पार्थ तामसी॥ ३२ ॥

 म० टी०-तमसा विशेषदर्शनविरोधिना दोषेणाऽऽवृता या बुद्धिरधर्मं धर्ममिति मन्यतेऽदृष्टार्थे सर्वत्र विपर्यस्यति । तथा सर्वार्थान्सर्वान्दृष्टप्रयोजनानपि ज्ञेयपदार्थान्विपरीत्तानेव मन्यते सा विपर्ययवती बुद्धिस्तामसी ॥ ३२ ॥

 श्री०टी०-तामसीं बुद्धिमाह-अधर्ममिति । विपरीतग्राहिणी बुद्धिस्तामसी- त्यर्थः । बुद्धिरन्तःकरणं पूर्वोक्तम् । ज्ञाने तु तद्वृत्तिः। धृतिरपि तद्वृत्तिरेव । यद्वा- अन्तःकरणस्य धर्मिणो बुद्धिरप्यध्यवसायलक्षणा वृत्तिरेव । इच्छाद्वेषादीनां तद्वृत्तीनां बहुत्वेऽपि धर्माधर्मोभयसाधनत्वेन प्राधान्यादेतासां त्रैविध्यमुक्तम् । उपलक्षणं चैतदन्यासाम् ॥ ३२ ॥


  1. ख. ग. घ. रु. च. छ. झ. ञ. 'मित्थं ।