पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो०२९-३०]
४८५
श्रीमद्भगवद्गीता।


चनशीलः । दीर्घसूत्री निरन्तरशङ्कासहस्रकवलितान्तःकरणत्वेनातिमन्थरप्रवृत्तिर्यदद्य कर्तव्यं तन्मासेनापि करोति न वेत्येवंशीलश्च कर्ता तामस उच्यते ॥ २८ ॥

 श्री० टी०-तामसं कर्तारमाह-अयुक्त इति । अयुक्तोऽनवहितः, प्राकृतो विवेकशून्यः, स्तब्धोऽनम्रः, शठः शक्तिगूहनकारी, नैष्कृ[१]तिकः परावमानी, अलसोऽनुद्यमशीलः, विषादी शोकशीलः, यदद्य वा श्वो वा कार्य तन्मासेनापि न संपादयति यः स दीर्घसूत्री । एवंभूतः कर्ता तामस उच्यते । कर्तृत्रैविध्येनैव ज्ञातुरपि त्रैविध्यमुक्तं भवति । कर्मत्रैविध्येन च ज्ञेयस्यापि त्रैविध्यमुक्तं वेदितव्यम् । बुद्धेस्त्रैिविध्येन करणस्यापि त्रैविध्यमुक्तं भविष्यति ॥ २८ ॥

 म०टी०-तदेवं ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदत इति व्याख्यातं संप्रति धृत्युत्साहसमन्वित इत्यत्र सूचितयोर्बुद्धिधृत्योस्त्रैविध्यं प्रतिजानीते-


बुद्धेर्भेदं धृतेश्चैव गुणतत्रिविधं शृणु ॥
प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ॥ २९॥

 बुद्धेरध्यवसायादिवृत्तिमत्त्या धृतेश्च तद्वृत्तेः सत्त्वादिगुणतस्त्रिविधमेव भेदं मया त्वां प्रति त्यक्तालस्येन परमाप्तेन प्रोच्यमानमशेषेण निरवशेषं पृथक्त्वेन हे[२]यादेयविवेकेन शृणु श्रोतुं सावधानो भव । हे धनंजयेति दिग्विजये प्रसिद्धं महिमानं सूचयन्प्रोत्साहयति । अत्रेदं चिन्त्यते-किमत्र बुद्धिशब्देन वृत्तिमात्रमभिप्रेतं किं वा वृत्तिमदन्तःकरणं, प्रथमे ज्ञानं पृथङ्न वक्तव्यं, द्वितीये कर्ता पृथङ्न वक्तव्यः, वृत्तिमदन्तःकरणस्यैव कर्तृत्वात् । ज्ञानधृत्योः पृथक्कथनवैयर्थ्यं च । न चेच्छादिपरिसंख्यार्थं तत् , वृत्तिमदन्तःकरणत्रैविध्यकथनेन सर्वासामपि तद्वृत्तीनां त्रैविध्यस्य विवक्षितत्वात् । उच्यते--अन्तःकरणोपहितश्चिदाभासः कर्ता । इह तूपहितानिष्कृष्योपाधिमात्र करणत्वेन विवक्षितं सर्वत्र करणोपहितस्य कर्तृत्वात् । यद्यपि च “कामः संकल्पो विचिश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीमित्येतत्सर्व मन एव" इतिश्रुत्यनूदितानां सर्वासामपि वृत्तीनां त्रैविध्यं विवक्षितं तथाऽपि धीधृत्योपैस्त्रैिध्यं पृथगुक्तं ज्ञानशक्तिक्रियाशक्त्युपलक्षणार्थं न तु परिसंख्यार्थमिति रहस्यम् ॥ २९ ॥

 श्री० टी०-इदानीं बुद्धधृतेश्चापि त्रैविध्यं प्रतिजानीते-बुद्धेरिति । स्पष्टार्थः ॥ २९ ॥

 म० टी०-तत्र बुद्धेस्त्रैविध्यमाह त्रिभिः-

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ॥
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥३०॥


  1. झ. नैकृति ।
  2. क. हेयोपादे।