पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८४
[अ०१८क्ष्लो०२७-२८]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 मुक्तसङ्गस्त्यक्तफलाभिसंधिः, अनहंवादी कर्ताऽहमितिवदनशीलो न भवति स्वगुणश्लाघाविहीनो वा । धृतिर्विघ्नायुपस्थितावपि प्रारब्धापरित्यागहेतुरन्तःकरणवृत्तिविशेषो धैर्यमुत्साह इदमहं करिष्याम्येवेतिनिश्चयात्मिका बुद्धि र्धृतिहेतुभूता ताभ्यां संयुक्तो धृत्युत्साहसमन्वितः । कर्मणः क्रियमाणस्य फलस्य सिद्धावसिद्धौ च हर्षशोकाभ्यां हेतुभ्यां यो विकारो वदनविकासम्लानत्वादिस्तेन रहितः सिध्यसिद्धयोर्निविकारः केवलं शास्त्रप्रमाणप्रयुक्तो न फलरागेण । अत एवंभूतः कर्ता सात्विक उच्यते ॥ २६ ॥

 श्री० टी०-कर्तारं त्रिविधमाह-मुक्तसङ्ग इति त्रिभिः । मुक्तसङ्गस्त्यक्ताभिनिवेशः, अनहंवादी गर्वोक्तिरहितः, धृतिधैर्यम् , उत्साह उद्यमः, ताभ्यां समन्वितः संयुक्तः, आरब्धस्य कर्मणः सिद्धावसिद्धौ च निर्विकारो हर्षविषादशून्यः । एवंभूतः कर्ता सात्त्विक उच्यते ॥ २६ ॥

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ॥
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ २७ ॥

 म० टी०-रागी कामाद्याकुलचित्तः । अत एव कर्मफलप्रेप्सुः कर्मफलार्थी । लुब्धः परद्रव्याभिलाषी धर्मार्थ स्वद्रव्यत्यागासमर्थश्च । स्वाभिप्रायप्रकटनेन परवृत्तिच्छेदनं हिंसा तदात्मकस्तत्स्वभावः । स्वाभिप्रायाप्रकटने [१] तु [२] नैप्कृतिक इति भेदः । अशुचिः शास्त्रोक्तशौचहीनः । सिद्धयसिद्धयोः कर्मफलस्य हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ २७ ॥

 श्री०टी०-राजसं कर्तारमाह-रागीति । रागी पुत्रादिषु.प्रीतिमान्, कर्म. फलप्रेप्सुः कर्मफलकामी, लुब्धः परस्वाभिलाषी, हिंसात्मको मारकस्वभावः, अशुचिर्विहितशौचशून्यः, लाभालाभयोहर्षशोकाम्यामन्वितः कर्ता राजसः परिकीर्तितः ॥२७॥

अयुक्तः प्राकृतः स्तब्धः शठो [३]नैष्कृतिकोऽलसः॥
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ २८ ॥

 म. टी०-अयुक्तः सर्वदा विषयापहृतचित्तत्वेन कर्तव्येष्वनवहितः । प्राकृतः शास्त्रासंस्कृतबुद्धिर्वालसमः । स्तब्धो गुरुदेवतादिष्वप्यननम्रः । शठः परवञ्चनार्थमन्यथा जानन्नप्यन्यथावादी । नै[४]ष्कृतिकः स्वस्मिन्नुपकारित्वभ्रममुत्पाद्य परवृत्तिच्छेदनेन स्वार्थपरः । अलसोऽवश्यकर्तव्येष्वप्यप्रवृत्तिशीलः । विषादी सततमसंतुष्टस्वभावत्वेनानुशो-


  • श्रीधरटीकासंज्ञितपुस्तके “ नैकृति " इति पाठः ।

  1. च. व. नेन तु ।
  2. ग. घ. ङ. च. छ. ज. श. नैकृतिक ।
  3. ङ. च. छ. ज. झ.नैकृति।
  4. ख. घ. ङ. च. छ. ज. झ. अ. नैकृति ।