पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८२
[अ०१८क्ष्लो०२२-२३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 श्री०टी०-~-राजसं ज्ञानमाह-पृथक्त्वेनेति । पृथक्त्वेन तु यज्ज्ञानमित्यस्यैव विवरणं सर्वेषु भूतेषु देहेषु नानाभावान्वस्तुत एवानेकान्क्षेत्रज्ञान्पृथग्विधान्सु[१]खित्वदुःखित्वादिरूपेण विलक्षणान्येन ज्ञानेन वेत्ति तज्ज्ञानं राजसं विद्धि ॥ २१ ॥

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहेतुकम् ॥
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ २२ ॥

 म०टी०-तुशब्दो राजसाद्भिनत्ति । बहुषु भूतकार्येषु विद्यमानेष्वेकस्मिन्कार्ये भूतविकारे देहे प्रतिमादौ वाऽहेतुकं हेतुरुपपत्तिस्तद्रहितमन्येषां भूतकार्याणामात्मत्वाभा[२]वे कथमेकस्य तादृशस्याऽऽत्मत्वमित्यनुसंधानशून्यं, कृत्स्नवत्परिपूर्णवत्सक्तमेतावानेवाऽऽत्मेश्वरो वा नातः परमस्तीत्वभिनिवेशेन लग्नं यथा दिगम्बराणां सावयवो देहपरिमाण आत्मेति यथा वा चार्वाकाणां देह एवाऽऽत्मेति एवं पाषाणदादिमात्र ईश्वर इत्येकस्मिन्कार्ये सक्तमहेतुकत्वादेवातत्त्वार्थवन्न तत्त्वार्थालम्बनम्, अल्पं च नित्यत्वविभुत्वाग्रहात् । ईदृशं नित्यविभुदेहादिव्यतिरिक्तात्मतद्व्यतिरिक्तेश्वरग्राहितार्किकज्ञानविलक्षणमनित्यपरिच्छिन्नदेहायात्माभिमानरूपं चार्वाकादीनां यज्ज्ञानं तत्तामसमुदाहृतं तामसानां प्राकृतजनानामीदृशज्ञानदर्शिभिः ॥ २२ ॥

 श्री०टी०-तामसं ज्ञानमाह-यत्त्विति । एकस्मिन्कार्य देहे प्रतिमादौ · वा कृत्स्नवत्परिपूर्णवत्सक्तमतावानेवाऽऽत्मेश्वरो वेत्यभिनिवेशयुक्तम् , अहैतुकं निरुपपत्तिकम् , अतत्त्वार्थवत्परमार्थावलम्बनशून्यम् । अत एवाल्पं तुच्छमल्पविषयत्वादल्पफलत्वाच्च । यदेवभूतं ज्ञानं तत्तामसमुदाहृतम् ॥ २२ ॥

 म०टी०-तदेवमौपनिषदानामद्वैतात्मदर्शनं सात्त्विकमुपादेयं मुमुक्षभिर्द्वैतदर्शिनां तु नित्यविभुपरस्परविभिन्नात्मदर्शनं राजसमनित्यपरिच्छिन्नात्मदर्शनं च तामसं हेयमुक्तं, संप्रति त्रिविधं कर्मोच्यते-

नियतं सङ्गरहितमरागद्वेषतः कृतम् ॥
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ २३ ॥

 नियतं यावदङ्गोपसंहारासमर्थानामपि फलावश्यंभावव्याप्तं नित्यमिति यावत् । सोऽहमेव महायाज्ञिक इत्याद्यभिमानरूपोऽहंकारापरपर्यायो राजसो गर्वविशेषस्तेन शून्यं सङ्गरहितं, यावदज्ञानं तु कर्तृत्वभोक्तृत्वप्रवर्तनोऽहंकारोऽनुवर्तत एव सात्त्विकस्यापि । तद्रहितस्य तु तत्त्वविदो न कर्माधिकार इत्युक्तमसकृत् । रागो राजसन्मानादिकमनेन लप्स्य इत्यभिप्रायः, द्वेषः शत्रुमनेन पराजेष्य इत्यभिप्रायस्ताभ्यां न


+ श्रीधरटीकामूले “ अहैतुकम्” इति पाठः ।


  1. क ज ’म्सुखी दु:खीत्यादि
  2. ख. घ. च. छ. श. "वेन क ।