पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८०
[अ०१८क्ष्लो०१९]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


त्रिविधं कारकं क्रियाश्रय इत्यर्थः । संप्रदानादिकारकत्रयं तु परम्परया क्रियानिर्वतकमेव केवलं नतु साक्षास्त्रियाया आश्रयः । अतः करणादित्रितयमेव क्रियाश्रय इत्युक्तम् ॥ १८ ॥

 म० टी०-इदानी ज्ञानज्ञेयज्ञातृरूपस्य करणकर्मकर्तृरूपस्य च त्रिकद्वयस्य त्रिगुणात्मकत्वं वक्तव्यमिति तदुभयं संक्षिप्य त्रिगुणात्मकत्वं प्रतिजानीते-

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ॥
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥ १९ ॥

 ज्ञानं प्राग्व्याख्यातम् । ज्ञेयमप्यत्रैवान्तर्भूतं ज्ञानोपाधिकरवाज्ज्ञेयत्वस्य । कर्म किया त्रिविधः कर्मसंग्रह इत्यत्रोक्ता । चकारात्करणकर्मकारकयोरत्रैवान्तर्भावः क्रियोपाधिकत्वात्कारकत्वस्थ । कर्ता क्रियाया निर्वर्तकः । चकाराग्ज्ञाता च कर्तुः क्रियोपाधिकत्वेऽपि पृथक्त्रैगुण्यकथनं कुतार्किकभ्रमकल्पितात्मत्वनिवारणार्थम् । ते हि कर्तैवाऽऽत्मेति मन्यन्ते । गुणाः सत्त्वरजस्तमांसि सम्यकार्यभेदेन ख्यायन्ते प्रतिपाद्यन्तेऽस्मिन्निति गुणसंख्यानं कापिलं तस्मिन् , ज्ञानं क्रिया च कर्ता च गुणभेदतः सत्त्वरजस्तमोभेदेन त्रिधैव प्रोच्यते । एवकारो विधान्तरनिवारणार्थः । यद्यपि कापिलं शास्त्रं परमार्थब्रह्मैकत्वविषये न प्रमाणं तथाऽप्यपरमार्थगुणगौणभेदनिरूपणे व्यावहारिकं प्रामाण्यं भजत इति वक्ष्यमाणार्थस्तुत्यर्थं गुणसंख्याने प्रोच्यत इत्युक्तम् । तत्रान्तरेऽपि प्रसिद्धमिदं न केवलमस्मिन्नेव तन्त्र इति स्तुतिः । यथावद्यथाशास्त्रं शृणु श्रोतुं सावधानो भव तानि ज्ञानादीनि । अपिशब्दात्तद्भेदजातानि च गुणभेदकृतानि । अत्र चैवमपौनरुक्त्यं द्रष्टव्यं चतुर्दशेऽध्याये तत्र सत्त्वं निर्मलत्वादित्यादिना गुणानां बन्धहेतुत्वप्रकारो निरूपितो गुणातीतस्य जीवन्मुक्तत्वनिरूपणाय । सप्तदशे पुनर्यजन्ते सात्त्विका देवानित्यादिना गुणकृतत्रिविधस्वभावनिरूपणेनाऽऽसुरं रजस्तमःस्वभावं परित्यज्य सात्त्विकाहारादिसेवया दैवः सात्त्विकः स्वभावः संपादनीय इत्युक्तम् । इह तु स्वभावतो गुणातीतस्याऽऽत्मनः क्रियाकारकफलसंबन्धो नास्तीति दर्शयितुं तेषां सर्वेषां त्रिगुणात्मकत्वमेव न रूपान्तरमस्ति येनाऽऽत्मसंबन्धिता स्यादित्युच्यत इति विशेषः ॥ १९॥

 श्री० टी०--ततः किमत आह-ज्ञानमिति । गुणाः सम्यकार्यभेदेन ख्यायन्ते प्रतिपाद्यन्तेऽस्मिन्निति गुणसंख्यानं सांख्यशास्त्रं तस्मिन् , ज्ञानं कर्म च क्रिया कर्ता च प्रत्येकं सत्त्वादिगुणभेदेन त्रिधैवोच्यते । तान्यपि ज्ञानादीनि वक्ष्यमाणानि यथावच्छृणु । त्रिधैवेत्येवकारो गुणत्रयोपाधिव्यतिरेकेणाऽऽत्मनः स्वतःक [१]र्मादिप्रतिषेधार्थः ।


  1. क. 'कते