पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १८ क्ष्लो०१८]
४७५
श्रीमद्भगवद्गीता।


लोके प्रसिद्धाः । वेदे तु विधिनाऽहं प्रेरितः करोमीति व्यवहर्तारो भवन्ति । तत्र स्वयमचेतनत्वादपौरुषेयत्वाच्च वैदिकस्य विधेर्न चेतनधर्मेणाऽऽज्ञादिना प्रेरकता संभवति । अतः स्वधर्मेणैव साऽभ्युपगन्तव्या गत्यन्तरासंभवात् । स एव च धर्मश्चोदना प्रवर्तना प्रेरणा विधिरुपदेशः शब्दभावनेति चोच्यते । तत्र केचिदलौकिकमेव शब्दव्यापारं कल्पयन्ति । अन्ये तु कृप्तेनैवोपपत्तौ नालौकिककल्पनां सहन्ते । प्रवर्तना हि प्रवृत्तिहेतुर्व्यापारः । विधिशब्दस्य चाऽऽख्यातत्वेन दशलकारसाधारणेनोपाधिना पुरुषप्रवृत्तिरूपार्थभावनां प्रति वाचकत्वं तज्ज्ञानहेतुत्वमिति यावत् । सा च ज्ञातैवानुष्ठातुं शक्यत इति तद्धीहेतोरपि शब्दस्य तद्धेतुत्वं परम्परया भवत्येव । तत्र विधिशब्दस्य पुरुषप्रवृत्तिरूपभावनाज्ञानहेतुर्व्यापार[१]स्तद्वाचकशक्तिमत्तया विधिशब्दज्ञानम् । स एव च तस्य प्रवृत्तिहेतुर्व्यापार इति प्रवर्तनाभिधानीयकं लभते ज्ञानद्वारेणैव शब्दस्य प्रवृत्तिजनकत्वात् , ज्ञानजनकव्यापारातिरिक्तव्यापारकल्पने मानाभावात् । ज्ञानजनकश्च व्यापारस्तस्य स्वज्ञानं शक्तिविज्ञानं शक्तिविशिष्टस्वज्ञानं च। तत्राऽऽद्ययोरन्यतरस्य शब्दभावनात्वं तृतीयस्य तु तत्र करणत्वमिति विवेकः । एवं स्थिते निष्कर्षः, विधिना स्वज्ञानं जन्यते प्रवर्तनात्वेनाभिधीयतेऽपीति विधिज्ञानमेव शब्दभावना । तस्यां च पुरुषप्रवृतिरूपाऽर्थभावनैव भाव्यतयाऽन्वेति । करणतया च प्रवृत्तिवाचकशक्तिमद्विधिज्ञानमेव । भावनासाध्यस्यापि फलावच्छिन्नां भावनां प्रति करणत्वं फलकरणत्वादेव यागस्येव स्वर्गभावनां प्रति न विरुध्यते । तथा च पुरुषः स्वप्रवृत्तिं भावयेत् । केनेत्यपेक्षायां पुरुषप्रवृत्तिवाचकशक्तिमत्तया ज्ञातेन विधिशब्देनेति करणांशपूरणम् । कथमित्याकाङ्क्षायामर्थवादैः स्तुत्वेतीतिकर्तव्यतांशपूरणम् । इयं गौः क्रय्येति लौकिके विधौ बहुक्षीरा जीवद्वत्सा ख्यपत्या समांसमीनेत्यादिलौकिकार्थवादवत् । नन्वाख्यातत्वेन विधिशब्दादुपस्थिता पुरुषप्रवृत्तिर्भाव्यतयाऽन्वेतु । करणं तु कथमनुपस्थितमन्वेति । उच्यते-विधिशब्दस्तावच्छ्रवणेनोपस्थापितस्तस्य पुरुषप्रवृत्तिवाचकशक्तिरपि स्मरणेनोपस्थापिता । तदुभयवैशिष्टयं तन्निष्ठा ज्ञातता च मनसेति वाचकशक्तिमत्तया ज्ञातो विधिशब्द उपस्थित एव । अनेन यच्छक्नुयात्तद्भावयेदिति प्रतिशब्दं स्वाध्यायविधितात्पर्याच्छब्दातिरिक्तेनोपस्थितमपि शाब्दबोधे भासत एव । यथा ज्योतिष्टोमादि नामधेयं यथा वा लिङ्गविनियोज्यो मन्त्रः । तदुक्तमाचार्यैरुद्भिदधिकरणे---अनुपस्थितविशेषणा [२]विशिष्टबुद्धिर्न भवति न त्वनभिहितविशेषणा" इति । एवमर्थवादानामुपस्थितिः श्रोत्रेण प्राशस्त्यस्य तु तैरेव लक्षणया तदुभयनिष्ठज्ञाततायास्तु मनसेत्यर्थवादैः प्रशस्तत्वेन [३]ज्ञात्वेतीतिकर्तव्यतांशान्वयोऽप्युपपन्न एव । ननु किं प्राशस्त्यं, न तावत्फलसाधनत्वं, तस्य यागेन भावयेत्स्वर्गमित्यर्थभावनान्वयवशेन विधिवाक्यादेव लब्धत्वात् ।


  1. क. ग. “पारः पुरुषप्रवृत्तिवाचकस्त ।
  2. क. ग. अ. ज. ज. 'शिष्टे बु ।
  3. ज. ज्ञातेती।