पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४७१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


.. [अ०१८श्लो०१३] श्रीमद्भगवद्गीता। ४६७ धाकर्मादि नमित्तं पुनः शरीरग्रहणमनुभवति सर्वभ्रमाणां कारणोच्छेदेनोच्छेदात् । यस्त्ववि वान्कर्तृत्वाद्यमिमानी देहभृत्स त्रिविधो रागादिदोषप्रावल्यात्काम्यनिषिद्धा- दियथेष्टकर्मानुष्ठायी मोक्षशास्त्रानधिकार्येकः । अपरस्तु यः प्राकृतस्कृतवशात्किंचि- त्प्रक्षीणरागादिदोषः सर्वाणि कर्माणि त्यक्तुमशक्नुवन्निषिद्धानि काम्यानि च परित्यज्य नित्यानि नैमित्तिकानि च कर्माणि फलाभिसंधित्यागेन सत्त्वशुद्यर्थमनुतिष्ठन्गौणसंन्यासी मोक्षशास्त्राधिकारी द्वितीयः सः। ततो नित्यनैमित्तिककर्मानुष्ठानेनान्तःकरणशुद्ध्या समुपजातविविदिषः श्रवणादिना वेदनं मोक्षसाधनं संपिपादयिषुः सर्वाणि कर्माणि विधितः परित्यज्य ब्रह्मनिष्ठं गुरुमुपसर्पति विविदिषासंन्यासिसमाख्यस्तृतीयः । तत्राऽs- द्यस्य संसारित्वं सर्वप्रसिद्ध, द्वितीयस्य त्वनिष्टमित्यादिना व्याख्यातं, तृतीयस्य तु अयतिः श्रद्धयोपेत इति प्रश्नमुत्थाप्य निर्णीतं षष्ठे । अज्ञस्य संसारित्वं ध्रुवं कारण- सामग्र्याः सत्त्वात् । तत्तु कस्यचिज्ज्ञानाननुगुणं कस्यचिज्ज्ञानानुगुणमिति विशेषः । विज्ञस्य तु संसारकारणाभावात्स्वत एव कैवल्यमिति द्वौ पदार्थों सूत्रिताव- स्मिश्लोके ॥ १२ ॥ श्री० टी०-एवंभूतस्य कर्मफलत्यागस्य फलमाह-अनिष्टमिति । अनिष्टं नारकित्वम् , इष्टं देवत्वं, मिश्रं मनुष्यत्वम्, एवं त्रिविधं पापस्य पुण्यस्य चोमयमि- श्रस्य च कर्मणो यत्फलं प्रसिद्धं तत्सर्वमत्यागिनां सकामानामेव प्रेत्य परत्र भवति तेषां त्रिविधर्मसंभवात् । न तु संन्यासिनां क्वचिदपि भवति । संन्यासिशब्देनात्र फलत्यागसाम्यात्प्रकृताः कर्मफलत्यागिनोऽपि गृह्यन्ते । " अनाश्रितः कर्मफलं कार्य कर्म करोति यः । स संन्यासी च योगी इत्येवमादौ च कर्मफलत्यागिषु संन्यासिशब्दप्रयोगदर्शनात् । तेषां सात्त्वि. कानां पापासंभवादीश्वरार्पणेन च पुण्यफलस्य त्यक्तत्वात्रिविधमाप कर्मफलं न भव- , " तीत्यर्थः ॥ १२ ॥ - म०टी०-तत्राऽऽत्मज्ञानरहितस्य संसारित्वे हेतुः कर्मत्यागासंभव उक्तः "नहि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः" इति । तत्राज्ञस्य कर्मत्यागासंभवे को हेतुः कर्म- हेतावधिष्ठानादिपञ्चके तादात्म्याभिमान इतीममर्थं चतुर्भिः श्लोकैः प्रपञ्चयति । तत्र प्रथमेनाधिष्ठानादीनि पञ्च वेदान्तप्रमाणमूलानि हेयत्वार्थमवश्यं ज्ञातव्यानीत्याह- +पञ्चेमानि महाबाहो कारणानि निबोध मे ।। सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥१३॥ श्रीधरटीकादर्शपुस्तकेषु क. ख. ग. घ. च. छ. ज. संज्ञितेषु मूले पञ्चैतानीति पाठः १ क. ग. च. पञ्चैतानि ।