पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६६
[अ०१८क्ष्लो०१२]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


" अनाश्रितः कर्मफलं कार्यं कर्मं करोति यः ।
स संन्यासी च

 इत्यादौ कर्मफलत्यागिषु संन्यासिशब्दप्रयोगात्कर्मिण एवात्र फलत्यागसाम्यात्संन्यासिशब्देन गृह्यन्ते । तेषां च सात्त्विकानां नित्यकर्मानुष्ठानेन निषिद्धकर्माननुष्ठानेन च पापासंभवान्नानिष्टं फलं संभवति नापीष्टं काम्याननुष्ठानात् , ईश्वरार्पणेन फलस्य त्यक्तत्वाच्च । अत एव मिश्रमपि नेति त्रिविधकर्मफलासंभवः । अत एवोक्तम्-

"मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ।
नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया " इति ॥

 स वक्तव्यः शब्दस्यार्थस्य च मर्यादा न निरधारि भवतेति । तथाहि-"गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः" इति शब्दमर्यादा। यथा “अमावास्यायामपराह्ने पिण्डपितृयज्ञेन चरन्ति" इत्यत्रामावास्याशब्दः काले मुख्यः । तत्कालोत्पन्ने कर्मणि च गौणः “य एवं विद्वानमावास्यायां यजते" इत्यादौ । तत्रामावास्यायामिति कर्मग्रहणे पितृयज्ञस्य तदङ्गत्वान्न फलं कल्पनीयमिति विधेर्लाघवमिति पूर्वपक्षितं कात्यायनेन-"अङ्गं वा समभिव्याहारात्" इति । गौणार्थस्य मुख्यार्थोपस्थितिपूर्वकत्वान्मुख्यार्थस्य चेहाबाधादमावास्याशब्देन काल एव गृह्यते । फलकल्पनागौरवं तूत्तरकालीनं प्रमाणवत्त्वादङ्गीकार्यमिति सिद्धान्तितं जैमिनिना-"पितृयज्ञः स्वकालत्वादनङ्गं स्यात्" इति । एवं स्थिते संन्यासिशब्दस्य सर्वकर्मत्यागिनि मुख्यत्वात्कर्मिणि च फलत्यागसाम्येन गौणत्वान्मुख्यार्थस्य चेहाबाधात्तस्यैव संन्यासिशब्देन ग्रहणमिति शब्दमर्यादया सिद्धम् । सत्यां कारणसामग्ण्यां कार्योत्पाद इति चार्थमर्यादा । तथाहि-ईश्वरार्पणेन त्यक्तकर्मफलस्यापि सत्त्वशुद्ध्यर्थ नित्यानि कर्माप्यनुतिष्ठतोऽन्तराले मृतस्य प्रागर्जितैः कर्मभिस्त्रिविधं शरीरग्रहणं केन वार्यते “यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रेति स कृपणः," इति श्रुतेः । अन्ततः सत्त्वशुद्धिफलज्ञानोत्पत्त्यर्थं तदधिकारिशरीरमपि तस्याऽऽवश्यकमेव । अत एव विविदिषासंन्यासिनः श्रवणादिकं कुर्वतोऽन्तराले मृतस्य योगभ्रष्टशब्दवाच्यस्य "शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते" इत्यादिना ज्ञानाधिकारिशरीरप्राप्तिरवश्यंभाविनीति निर्णीतं षष्ठे यत्र सर्वकर्मत्यागिनोऽप्यज्ञस्य शरीरग्रहणमावश्यकं तत्र किं वक्तव्यमज्ञस्य कर्मिण इति । तस्मादज्ञस्यावश्यं शरीरग्रहणमित्यर्थमर्यादया सिद्धं पराक्रान्तं चैकभविकपक्षनिराकरणे सूरिभिः । तस्माद्यथोक्तं भगवत्पूज्यपादभाष्यकृतं व्याख्यानमेव ज्यायः । तदयमत्र निष्कर्षः-अकर्त्रभोक्तृपरमानन्दाद्वितीयसत्यस्वप्रकाशब्रह्मात्मसाक्षात्कारेण निर्विकल्पेन वेदान्तवाक्यजन्येन विचारनिश्चितप्रामाण्येन सर्वप्रकाराप्रामाण्यशङ्काशून्येन ब्रह्मात्मज्ञानेनाऽऽत्माज्ञाननिवृत्तौ तत्कार्यकर्तृत्वाद्यभिमानरहितः परमार्थसंन्यासी सर्वकर्मोच्छेदाच्छुद्धः केवलः सन्नावि-