पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६४
[अ०६८क्ष्लो०११]
मधुसदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


युक्तो मेधावी स्थितप्रज्ञो भवति । तदा छिन्नसंशयोऽहं ब्रह्मास्मीतिविद्यारूपया मेधया तदविद्योच्छेदे तत्कार्यसंशयविपर्ययशून्यो भवति । तदा च क्षीणकर्मत्वान्न द्वेष्ट्यकुशलं कर्माशोभनं काम्यं निषिद्धं वा कर्म न प्रतिकूलतया मन्यते, कुशले शोभने नित्ये कर्माणि नानुषज्जते न प्रीतिं करोति कर्तृत्वाद्यभिमानरहितत्वेन कृतकृत्यत्वात् । तथा च श्रुतिः-

"भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे " इति ॥

 यस्मादेवं सात्त्विकस्य त्यागस्य फलं तस्मान्महताऽपि प्रयत्नेन स एवोपादेय इत्यर्थः ॥ १० ॥

 श्री टी०--एवंभूतसात्त्विकत्यागपरिनिष्ठितस्य लक्षणमाह-न द्वेष्टीति । सत्त्वसमाविष्टः सत्त्वेन संव्याप्तः सात्त्विकत्याग्यकुशलं दुःखावहं शिशिरे प्रातःस्नानादिकं कर्म न द्वेष्टि । कुशले च सुखकरे कर्मणि निदाघे माध्याह्नस्नानादौ नानुषज्जते प्रीतिं न करोति । तत्र हेतुः--मेधावी स्थिरबुद्धिः । यत्र परपरिभवादि महदपि दुःखं सह्यते स्वर्गादिसुखं च त्यज्यते तत्र कियदेतत्तात्कालिकं सुखं दुःखं चेत्येवमनुसंधानवानित्यर्थः । अत एव च्छिन्नः संशयो मिथ्याज्ञानं दैहि[१]कमुखदुःखयोरुपादित्सापरिजिहीर्षालक्षणं यस्य सः ॥ १० ॥

 म० टी०-तदेवमात्मज्ञानवतः सर्वकर्मत्यागः संभाव्यते कर्मप्रवृत्तिहेत्वो रागद्वेषयोरभावादित्युक्तं, संप्रत्यज्ञस्य कर्मत्यागासंभवे हेतुरुच्यते-

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ॥
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ ११ ॥

 मनुष्योऽहं ब्राह्मणोऽहं गृहस्थोऽहमित्याद्यभिमानेनाबाधितेन देहं कर्माधिकारहेतुवर्णाश्रमादिरूपं कर्तृ[२]भोक्तृत्वाद्याश्रयं स्थूलसूक्ष्मशरीरेन्द्रियसंघातं बिभर्ति अनाद्यविद्यावासनावशाद्वयवहारयोग्यत्वेन कल्पितमसत्यमपि सत्यतया स्वभिन्नमपि स्वाभिन्नतया पश्यन्धारयति पोषयति चे[३]ति देहभृदबाधितकर्माधिकारहेतुदेहाभिमानस्तेन विवेकज्ञानशून्येन देहभृता कर्मप्रवृत्तिहेतुरागद्वेषपौष्कल्येन सततं कर्मसु प्रवर्तमानेन कर्माण्यशेषतो निःशेषेण त्यक्तुं हि यस्मान्न शक्यं न शक्यानि सत्यां कारणसामग्न्यां कार्यत्यागस्याशक्यत्वात् । तस्माद्यस्त्वज्ञोऽधिकारी सत्त्वशुद्धयर्थं कर्माणि कुर्वन्नपि भगवदनुकम्पया तत्फलत्यागी । तुशब्दस्तस्य दुर्लभत्वद्योतनार्थः । स त्यागीत्यभिधी-


  1. क. ख. छ. 'हिकं सु।
  2. झ. अ. र्तृत्वों ।
  3. ग. अ. वैति ।