पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो०१०]
४६३
श्रीमद्भगवद्गीता ।


इत्यादिश्रुतयश्च ज्ञानप्रतिबन्धकपापक्षयलक्षणं ज्ञानयोग्यतारूपपुण्योत्पत्तिलक्षणं चाऽऽत्मसंस्कारं नित्यानां कर्मणां फलं दर्शयन्ति । तदभिसंधिं त्यक्त्वा तान्यनृष्ठेयानीत्यर्थः । यदुक्तं त्यागसंन्यासशब्दौ घटपटशब्दाविव न भिन्नजातीयार्थौ किंतु फलाभिसंधिपूर्वककर्मत्याग एव तयोरर्थ इति तन्न विस्मर्तव्यम् । तत्र सत्यपि फलाभिसंधौ मोहाद्वा कायक्लेशभयाद्वा यः कर्मत्यागः स विशेष्याभावकृतो विशिष्टामावस्तामसत्वेन राजसत्वेन च निन्दितः । यस्तु सत्यपि कर्मणि फलाभिसंधित्यागः स विशेषणाभावकृतो विशिष्टाभावः सात्त्विकत्वेन स्तूयत इति विशेष्याभावकृते विशेषणाभावकृते च विशिष्टाभावंत्वस्य समानत्वान्न पूर्वापरविरोधः । उभयाभावकृतस्तु निर्गुणत्वान्न त्रिविधमध्ये गणनीय इति चावोचाम । एतेन " त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः" इति प्रतिज्ञाय कर्मत्यागलक्षणे द्वे विधे दर्शयित्वा प्रतिज्ञाननुरूपां कर्मानुष्ठानलक्षणां तृतीयां विधां दर्शयतो भगवतः प्रकटमकौशलमापतितम् । न हि भवति त्रयो ब्राह्मणा भोजयितव्या द्वौ कठकौण्डिन्यौ तृतीयः क्षत्रिय इति तद्वदिति परास्तम् । तिसृणाभा विधानां विशिष्टाभावरूपेण त्यागसामान्यनैकजातीयतया प्राग्व्याख्यातत्वात् । तस्माद्भगवदकौशलोद्धावनमेव महदकौशलमिति द्रष्टव्यम् ॥ ९ ॥

 श्री० टी०-सात्त्विकं त्यागमाह-कार्यमिति । कार्यमित्येवं बुद्ध्वा नियतम- वश्यकर्तव्यतया विहितं कर्म सङ्गं फलं च त्यक्त्वा क्रियत इति यत्तादृशस्त्यागः सात्त्विको मतः ॥ ९ ॥

 म०टी०-सात्त्विकस्य त्यागस्याऽऽदानाय सत्त्वशुद्धिद्वारेण ज्ञाननिष्ठां फलमाह-

न देष्ट्यकुशलं कर्म कुशले नानुषजते ॥
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥१०॥

 यस्त्यागी सात्त्विकेन त्यागेन युक्तः पूर्वोक्तेन प्रकारेण कर्तृत्वाभिनिवेशं फलाभिसंधिं च त्यक्त्वाऽन्तःकरणशुद्ध्यर्थं[१] विहितकर्मानुष्ठायी स यदा सत्त्वसमाविष्टः सत्त्वेनाऽऽत्मानात्मविवेकज्ञानहेतुना चित्तगतनातिशयेन सम्यग्ज्ञानप्रतिबन्धकरजस्तमोमलराहित्येनाऽऽ समन्तात्फलाव्यभिचारेणाऽऽविष्टो व्याप्तो भवति भगवद्र्पितनित्यकर्मानुष्ठानात्पापमलापकर्षलक्षणेन ज्ञानोत्पत्तियोग्यतारूपपुण्यगुणाधानलक्षणेन च संस्कारेण संस्कृतमन्तःकरणं यदा भवतीत्यर्थः । तदा मेधावी शमदमसर्वकर्मोपरमगुरूपसदनादिसामवायिकाङ्गयुक्तेन मनननिदिध्यासनाख्यफलोपकार्यङ्गयुक्तेन च श्रव- णाख्यवेदान्तवाक्यविचारेण परिनिष्पन्नं वेदान्तमहावाक्यकरणकं निरस्तसमस्ताप्रामाण्याशङ्कं चिदन्याविषयकमहं ब्रह्मास्मीति ब्रह्मात्मैक्यज्ञानमेव मेधा तया नित्यं


  1. ख. ज.वस्य।