पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[भ०१८क्ष्लो०२]
४५५
श्रीमद्भगवद्गीता।


काम्यानां कर्मणां फलेन सह स्वरूपतोऽपि परित्यागः पूर्वार्धस्यार्थः । काम्यानां नित्यानां च संयोगपृथक्त्वेन विविदिषासंयोगात्तदर्थं स्वरूपतोऽनुष्ठानेऽपि प्रातिस्विकफलाभिसंधिमात्रपरित्याग इत्युत्तरार्धस्यार्थः । तदेतदादुर्वार्तिककृतः-

"वेदानुवचनादीनामैकात्म्यज्ञानजन्मने ।
तमेतमिति वाक्येन नित्यानां वक्ष्यते विधिः ।
यद्वा विविदिषार्थत्वं सर्वेषामपि कर्मणाम् ।
तमेतमिति वाक्येन संयोगस्य पृथक्त्वतः" इति ॥

 तदेवं सफलकाम्यकर्मत्यागः संन्यासशब्दार्थः । सर्वेषामपि कर्मणां फलामिसंधत्यागस्त्यागशब्दार्थ इति न घटपटशब्दयोरिव संन्यासत्यागशब्दयोभिन्नजातीयार्थत्वं किं त्वन्तःकरणशुद्धयर्थकर्मानुष्ठाने फलाभिसंधित्याग इत्येक एवार्थ उभयोरिति निर्णीत एकः प्रश्नोऽर्जुनस्य ॥ २ ॥

 श्री० टी०-तत्रोत्तरं श्रीभगवानुवाच-काम्यानामिति । "पुत्रकामो यजेत" "स्वर्गकामो यजेत" इत्येवमादिकामोपबन्धेन विहितानां काम्यानां कर्मणां न्यासं परित्यागं संन्यासं कवयो विदुः सम्यक्फलैः सह सर्वकर्मणामपि न्यासं संन्यासं पण्डिता विदुर्जानन्तीत्यर्थः । सर्वेषां काम्यानां नित्यनैमित्तिकानां च कर्मणां फलमात्रत्यागं प्राहुस्त्यागं विचक्षणा निपुणा नतु स्वरूपतः कर्मत्यागम् । ननु नित्यनैमित्तिकानां फलाश्रवणादविद्यमानस्य फलस्य कथं त्यागः स्यात् । नहि वन्ध्यायाः पुत्रत्यागः संभवति । उच्यते । यद्यपि स्वर्गकामः पशुकाम इत्यादिवत् “ अहरहः संध्यामुपासीत" " यावज्जीवमग्निहोत्रं जुहोति" इत्यादिषु फलविशेषो न इत्यादिषु फलविशेषो न श्रूयते तथाऽप्यपुरुषार्थे व्यापारे प्रेक्षावन्तं प्रवर्तयितुमशक्नुवन्विधिः "विश्वजिता यजेत" इत्यादिष्विव सामान्यतः किमपि फलमाक्षिपत्येव । नचातीवगुरुमतश्रद्धया स्वसिद्धिरेव विधेः प्रयोजनमिति मन्तव्यं पुरुषप्रवृत्त्यनुपपत्तेर्दुष्परिहरत्वात् । श्रूयते च नित्यादिष्वपि फलं सर्व एते पुण्यलोका भवन्तीति कर्मणा पितृलोक इति धर्मेण पापमपनुदतीत्येवमादिषु । तस्मा- धुक्तमुक्तं "सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः" इति । ननु च फलत्यागेन पुनरपि निष्फलेषु कर्मस्वप्रवृत्तिरेव स्यात्तन्न सर्वेषामपि कर्मणां संयोगपृथक्त्वेन विविदिषार्थतया विनियोगात् । तथा च श्रुतिः-" तमेतमात्मानं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन " इति । अतः प्रतिपदोक्तं सर्वं फलं बन्धकत्वेन स्यक्त्वा विविदिषार्थं सर्वकर्मानुष्ठानं घटत एव । विविदिषा च नित्यानित्यवस्तुविवेकेन निवृत्तदेहाभिमानतया बुद्धेः प्रत्यक्प्रवणता । तावत्पर्यन्तं च सत्त्वशुद्धयर्थं ज्ञानाविरुद्धं यथोचितमावश्यकं कर्म कुर्वतस्तत्फलत्याग एव कर्मत्यागो नाम न स्वरूपेण ।